Click on words to see what they mean.

व्यास उवाच ।भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया ।ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते ॥ १ ॥
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् ।क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे ॥ २ ॥
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः ।गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥ ३ ॥
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ॥ ४ ॥
प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः ।वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥ ५ ॥
गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते ।तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥ ६ ॥
प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः ।अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः ॥ ७ ॥
यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् ।यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥ ८ ॥
तपसा वा सुमहता विद्यानां पारणेन वा ।इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥ ९ ॥
यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी ।तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ॥ १० ॥
अध्यापयेदधीयीत याजयेत यजेत च ।न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन ॥ ११ ॥
याज्यतः शिष्यतो वापि कन्यया वा धनं महत् ।यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन ॥ १२ ॥
गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात् ।देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥ १३ ॥
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् ।द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि ॥ १४ ॥
अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन ।उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः ॥ १५ ॥
अनुनीय तथा काव्यः सत्यसंधो महाव्रतः ।स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥ १६ ॥
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ।अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥ १७ ॥
आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम् ।दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥ १८ ॥
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् ।ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ १९ ॥
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके ।ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥ २० ॥
दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् ।छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम् ॥ २१ ॥
सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥ २२ ॥
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् ॥ २३ ॥
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥ २४ ॥
सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः ।रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥ २५ ॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ।ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ॥ २६ ॥
अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् ।वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥ २७ ॥
करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा ।कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥ २८ ॥
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः ।निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥ २९ ॥
राजा मित्रसहश्चापि वसिष्ठाय महात्मने ।मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ ३० ॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ।ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ ३१ ॥
सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम् ।मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ ३२ ॥
नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् ।दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ ३३ ॥
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥ ३४ ॥
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥ ३५ ॥
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥ ३६ ॥
एते चान्ये च बहवो दानेन तपसा च ह ।महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ ३७ ॥
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥ ३८ ॥
« »