Click on words to see what they mean.

युधिष्ठिर उवाच ।किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १ ॥
भीष्म उवाच ।मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।जैगीषव्यस्य संवादमसितस्य च भारत ॥ ३ ॥
जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् ।अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥ ४ ॥
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि ।का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् ॥ ५ ॥
इति तेनानुयुक्तः स तमुवाच महातपाः ।महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि ॥ ६ ॥
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् ।तां तेऽहं संप्रवक्ष्यामि यन्मां पृच्छसि वै द्विज ॥ ७ ॥
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल ।निह्नुवन्ति च ये तेषां समयं सुकृतं च ये ॥ ८ ॥
उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् ।प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥ ९ ॥
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते ।न चातीतानि शोचन्ति न चैनान्प्रतिजानते ॥ १० ॥
संप्राप्तानां च पूज्यानां कामादर्थेषु देवल ।यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः ॥ ११ ॥
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः ।मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥ १२ ॥
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन ।न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ १३ ॥
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये ।न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥ १४ ॥
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः ।न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ।विमुच्य हृदयग्रन्थींश्चङ्क्रम्यन्ते यथासुखम् ॥ १५ ॥
न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः ।अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ॥ १६ ॥
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ।धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम ।ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥ १७ ॥
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् ।निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥ १८ ॥
यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः ।न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥ १९ ॥
अमृतस्येव संतृप्येदवमानस्य तत्त्ववित् ।विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ॥ २० ॥
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते ॥ २१ ॥
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः ।एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥ २२ ॥
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २३ ॥
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः ।पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥ २४ ॥
« »