Click on words to see what they mean.

युधिष्ठिर उवाच ।पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः ।पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।भविष्यतश्च भद्रं ते तथैव नभविष्यतः ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥ ३ ॥
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ ।सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥ ४ ॥
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः ।विचचार यथाकामं त्रिषु लोकेषु नारदः ॥ ५ ॥
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि ।ध्रुवद्वारभवां गङ्गां जगामावततार च ॥ ६ ॥
सहस्रनयनश्चापि वज्री शम्बरपाकहा ।तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥ ७ ॥
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः ।नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥ ८ ॥
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः ।चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ ।पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ॥ ९ ॥
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् ।पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥ १० ॥
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ।आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् ॥ ११ ॥
तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत ।तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् ।भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥ १२ ॥
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् ।बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥ १३ ॥
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् ।श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् ॥ १४ ॥
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा ।अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ॥ १५ ॥
नारदानुगतः साक्षान्मघवांस्तामुपागमत् ।कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥ १६ ॥
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् ।देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥ १७ ॥
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि ।कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥ १८ ॥
श्रीरुवाच ।पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः ।ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥ १९ ॥
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते ।भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ २० ॥
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन ।अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥ २१ ॥
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च ।अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥ २२ ॥
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च ।निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ २३ ॥
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि ।निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥ २४ ॥
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ २५ ॥
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना ।विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥ २६ ॥
शक्र उवाच ।कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने ।दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥ २७ ॥
श्रीरुवाच ।स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च ।स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ॥ २८ ॥
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् ।विप्राणामतिथीनां च तेषां नित्यमवर्तत ॥ २९ ॥
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः ।गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः ॥ ३० ॥
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः ।भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥ ३१ ॥
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन ।न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ ३२ ॥
दातारः संगृहीतार आर्याः करुणवेदिनः ।महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥ ३३ ॥
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः ।यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ॥ ३४ ॥
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः ।उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ॥ ३५ ॥
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः ।रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥ ३६ ॥
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः ।मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् ॥ ३७ ॥
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् ।अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥ ३८ ॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।दायं च संविभागं च नित्यमेवानुमोदताम् ॥ ३९ ॥
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् ।हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥ ४० ॥
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् ।अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥ ४१ ॥
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् ।अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ॥ ४२ ॥
नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् ।सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति ॥ ४३ ॥
नैवाकाशे न पशुषु नायोनौ न च पर्वसु ।इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन ॥ ४४ ॥
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा ।उत्साहश्चानहंकारः परमं सौहृदं क्षमा ॥ ४५ ॥
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा ।मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥ ४६ ॥
निद्रा तन्द्रीरसंप्रीतिरसूया चानवेक्षिता ।अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ॥ ४७ ॥
साहमेवंगुणेष्वेव दानवेष्ववसं पुरा ।प्रजासर्गमुपादाय नैकं युगविपर्ययम् ॥ ४८ ॥
ततः कालविपर्यासे तेषां गुणविपर्ययात् ।अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ॥ ४९ ॥
सभासदां ते वृद्धानां सत्याः कथयतां कथाः ।प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः ॥ ५० ॥
यूनः सहसमासीनान्वृद्धानभिगतान्सतः ।नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥ ५१ ॥
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः ।अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः ॥ ५२ ॥
तथा धर्मादपेतेन कर्मणा गर्हितेन ये ।महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा ॥ ५३ ॥
उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् ।पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् ॥ ५४ ॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥ ५५ ॥
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते ।अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् ॥ ५६ ॥
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा ।मनसा कर्मणा वाचा भक्तमासीदनावृतम् ॥ ५७ ॥
विप्रकीर्णानि धान्यानि काकमूषकभोजनम् ।अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् ॥ ५८ ॥
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् ।द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥ ५९ ॥
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते ।नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ॥ ६० ॥
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन् ।तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ॥ ६१ ॥
पायसं कृसरं मांसमपूपानथ शष्कुलीः ।अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् ॥ ६२ ॥
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः ।अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ॥ ६३ ॥
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह ।आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् ।संकराश्चाप्यवर्तन्त न च शौचमवर्तत ॥ ६४ ॥
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये ।निरन्तरविशेषास्ते बहुमानावमानयोः ॥ ६५ ॥
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् ।असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥ ६६ ॥
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः ।क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥ ६७ ॥
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् ।नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः संभवेष्वपि ॥ ६८ ॥
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् ।वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥ ६९ ॥
परस्वादानरुचयो विपण्यव्यवहारिणः ।अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ॥ ७० ॥
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे ।अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ॥ ७१ ॥
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव ।अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥ ७२ ॥
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः ।कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥ ७३ ॥
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः ।शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह ॥ ७४ ॥
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत ।अन्वशासच्च भर्तारं समाहूयाभिजल्पती ॥ ७५ ॥
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता ।व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् ॥ ७६ ॥
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् ।दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि ॥ ७७ ॥
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः ।अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥ ७८ ॥
तेष्वेवमादीनाचारानाचरत्सु विपर्यये ।नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥ ७९ ॥
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते ।त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः ॥ ८० ॥
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः ।सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा ॥ ८१ ॥
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा ।अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥ ८२ ॥
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता ।त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥ ८३ ॥
भीष्म उवाच ।इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः ।नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः ॥ ८४ ॥
ततोऽनलसखो वायुः प्रववौ देववेश्मसु ।इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ ८५ ॥
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः ।लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः ॥ ८६ ॥
ततो दिवं प्राप्य सहस्रलोचनः श्रियोपपन्नः सुहृदा सुरर्षिणा ।रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ ॥ ८७ ॥
अथेङ्गितं वज्रधरस्य नारदः श्रियाश्च देव्या मनसा विचारयन् ।श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्द्धिमत् ॥ ८८ ॥
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयंभुवः ।अनाहता दुन्दुभयश्च नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे ॥ ८९ ॥
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन ।अनेकरत्नाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये ॥ ९० ॥
क्रियाभिरामा मनुजा यशस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः ।नरामराः किंनरयक्षराक्षसाः समृद्धिमन्तः सुखिनो यशस्विनः ॥ ९१ ॥
न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि ।रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित् ॥ ९२ ॥
इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः ।पठन्ति ये विप्रसदः समागमे समृद्धकामाः श्रियमाप्नुवन्ति ते ॥ ९३ ॥
त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम् ।तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥ ९४ ॥
« »