Click on words to see what they mean.

युधिष्ठिर उवाच ।यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् ।पुरुषं योजयत्येव फलयोगेन भारत ॥ १ ॥
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः ।एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥ २ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥ ३ ॥
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् ।अस्तम्भमनहंकारं सत्त्वस्थं समये रतम् ॥ ४ ॥
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् ।चराचराणां भूतानां विदितप्रभवाप्ययम् ॥ ५ ॥
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च ।काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् ॥ ६ ॥
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् ।परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् ॥ ७ ॥
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् ।बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥ ८ ॥
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु ।भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥ ९ ॥
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह ।आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥ १० ॥
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि ॥ ११ ॥
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया ।प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥ १२ ॥
इति संचोदितस्तेन धीरो निश्चितनिश्चयः ।उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥ १३ ॥
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते ।तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ १४ ॥
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च ।सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते ॥ १५ ॥
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः ।स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह ॥ १६ ॥
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः ।तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः ॥ १७ ॥
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् ।आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् ॥ १८ ॥
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च ।लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥ १९ ॥
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च ।अप्रयत्नेन पश्यामः केषांचित्तत्स्वभावतः ॥ २० ॥
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः ।विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥ २१ ॥
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा ।शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥ २२ ॥
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः ।आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा ॥ २३ ॥
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् ।कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥ २४ ॥
यथा वेदयते कश्चिदोदनं वायसो वदन् ।एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥ २५ ॥
विकारानेव यो वेद न वेद प्रकृतिं पराम् ।तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ २६ ॥
स्वभावभाविनो भावान्सर्वानेवेह निश्चये ।बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥ २७ ॥
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् ।तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ २८ ॥
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः ।स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥ २९ ॥
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः ।नायासो विद्यते शक्र पश्यतो लोकविद्यया ॥ ३० ॥
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे ।द्वेष्टारं न च पश्यामि यो ममाद्य ममायते ॥ ३१ ॥
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये ।न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते ॥ ३२ ॥
शक्र उवाच ।येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते ।प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते ॥ ३३ ॥
प्रह्राद उवाच ।आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया ।वृद्धशुश्रूषया शक्र पुरुषो लभते महत् ॥ ३४ ॥
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यसि ॥ ३५ ॥
भीष्म उवाच ।इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् ।प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥ ३६ ॥
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः ।असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥ ३७ ॥
« »