Click on words to see what they mean.

भीष्म उवाच ।जनको जनदेवस्तु ज्ञापितः परमर्षिणा ।पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥ १ ॥
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् ।एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ २ ॥
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ ३ ॥
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः ॥ ४ ॥
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ ५ ॥
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते ।अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥ ६ ॥
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः ।ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥ ७ ॥
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् ।एष पञ्चसमाहारः शरीरमिति नैकधा ।ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥ ८ ॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ ९ ॥
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः ॥ १० ॥
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा ।सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥ ११ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ ।एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥ १२ ॥
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः ।तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥ १३ ॥
इमं गुणसमाहारमात्मभावेन पश्यतः ।असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥ १४ ॥
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि ।वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥ १५ ॥
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् ।शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥ १६ ॥
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥ १७ ॥
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि ।सुखत्यागे तपोयोगः सर्वत्यागे समापना ॥ १८ ॥
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ॥ १९ ॥
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि ।मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ॥ २० ॥
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ॥ २१ ॥
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ॥ २२ ॥
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ २३ ॥
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ॥ २४ ॥
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः ।त्रिविधा वेदना येषु प्रसूता सर्वसाधना ॥ २५ ॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ २६ ॥
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा ।लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ २७ ॥
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ २८ ॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥ २९ ॥
यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः ।प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ॥ ३० ॥
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ ३१ ॥
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः ।नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥ ३२ ॥
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥ ३३ ॥
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥ ३४ ॥
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः ।आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥ ३५ ॥
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् ।चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥ ३६ ॥
यत्तमोपहतं चित्तमाशु संचारमध्रुवम् ।करोत्युपरमं काले तदाहुस्तामसं सुखम् ॥ ३७ ॥
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति ।अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥ ३८ ॥
एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः ।कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते ॥ ३९ ॥
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥ ४० ॥
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥ ४१ ॥
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः ॥ ४२ ॥
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् ।प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥ ४३ ॥
इमां तु यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥ ४४ ॥
दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ।श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादतीतः ॥ ४५ ॥
क्षीणे च पुण्ये विगते च पापे ततोनिमित्ते च फले विनष्टे ।अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महद्ध्यसक्ताः ॥ ४६ ॥
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्ठति पात्यमानः ।तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमर्च्छन् ॥ ४७ ॥
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथावत् ।विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥ ४८ ॥
द्रुमं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी प्रपतत्यसक्तः ।तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ॥ ४९ ॥
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥ ५० ॥
इदममृतपदं विदेहराजः स्वयमिह पञ्चशिखेन भाष्यमाणः ।निखिलमभिसमीक्ष्य निश्चितार्थं परमसुखी विजहार वीतशोकः ॥ ५१ ॥
इमं हि यः पठति विमोक्षनिश्चयं न हीयते सततमवेक्षते तथा ।उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ ५२ ॥
« »