Click on words to see what they mean.

मनुरुवाच ।यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह ।अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् ॥ १ ॥
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः ।मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥ २ ॥
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु ।तद्वत्कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः ॥ ३ ॥
येन येन शरीरेण यद्यत्कर्म करोत्ययम् ।तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ४ ॥
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी ।तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी ॥ ५ ॥
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता ।अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥ ६ ॥
फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ।ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥ ७ ॥
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा ।क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् ॥ ८ ॥
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः ।अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः ॥ ९ ॥
पृथिवीरूपतो रूपमपामिह महत्तरम् ।अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥ १० ॥
पवनाच्च महद्व्योम तस्मात्परतरं मनः ।मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥ ११ ॥
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् ।नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥ १२ ॥
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ।अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥ १३ ॥
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् ।तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥ १४ ॥
गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् ।निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते ॥ १५ ॥
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः ।जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः ॥ १६ ॥
न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् ।न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ॥ १७ ॥
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते ।अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः ॥ १८ ॥
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् ।अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम् ॥ १९ ॥
अदृष्टतोऽनुपायाच्चाप्यभिसंधेश्च कर्मणः ।न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् ॥ २० ॥
विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् ।मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥ २१ ॥
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः ।परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥ २२ ॥
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् ।अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह ॥ २३ ॥
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः ।मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥ २४ ॥
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः ।मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते ॥ २५ ॥
बुद्धिप्रहीणो मनसासमृद्धस्तथा निराशीर्गुणतामुपैति ।परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥ २६ ॥
गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम् ।अनेनैव विधिना संप्रवृत्तो गुणादाने ब्रह्मशरीरमेति ॥ २७ ॥
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले ।तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्तते कर्मरूपः ॥ २८ ॥
सर्वैरयं चेन्द्रियैः संप्रयुक्तो देहः प्राप्तः पञ्चभूताश्रयः स्यात् ।नासामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥ २९ ॥
पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि ।परं नयन्तीह विलोभ्यमानं यथा प्लवं वायुरिवार्णवस्थम् ॥ ३० ॥
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेद्व्यपगतरश्मिमण्डलः ।तथा ह्यसौ मुनिरिह निर्विशेषवान्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥ ३१ ॥
अनागतिं सुकृतिमतां परां गतिं स्वयंभुवं प्रभवनिधानमव्ययम् ।सनातनं यदमृतमव्ययं पदं विचार्य तं शमममृतत्वमश्नुते ॥ ३२ ॥
« »