Click on words to see what they mean.

युधिष्ठिर उवाच ।किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥ २ ॥
प्रजापतिं श्रेष्ठतमं पृथिव्यां देवर्षिसंघप्रवरो महर्षिः ।बृहस्पतिः प्रश्नमिमं पुराणं पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ॥ ३ ॥
यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः ।यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥ ४ ॥
यदर्थशास्त्रागममन्त्रविद्भिर्यज्ञैरनेकैर्वरगोप्रदानैः ।फलं महद्भिर्यदुपास्यते च तत्किं कथं वा भविता क्व वा तत् ॥ ५ ॥
मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं दिवं च ।दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् ॥ ६ ॥
ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः ।न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥ ७ ॥
ऋक्सामसंघांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् ।अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥ ८ ॥
स मे भवाञ्शंसतु सर्वमेतज्ज्ञाने फलं कर्मणि वा यदस्ति ।यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति ॥ ९ ॥
मनुरुवाच ।यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् ।इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः ।इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥ १० ॥
कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत ।नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति ।परं हि तत्कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवश्यम् ॥ ११ ॥
प्रजाः सृष्टा मनसा कर्मणा च द्वावप्येतौ सत्पथौ लोकजुष्टौ ।दृष्ट्वा कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति ॥ १२ ॥
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा ।ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् ॥ १३ ॥
सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति ।अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥ १४ ॥
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्वथ दक्षिणाश्च ।अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥ १५ ॥
गुणात्मकं कर्म वदन्ति वेदास्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म ।विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु यथा शरीरी ॥ १६ ॥
शब्दाश्च रूपाणि रसाश्च पुण्याः स्पर्शाश्च गन्धाश्च शुभास्तथैव ।नरो नसंस्थानगतः प्रभुः स्यादेतत्फलं सिध्यति कर्मलोके ॥ १७ ॥
यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् ।शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥ १८ ॥
वाचा तु यत्कर्म करोति किंचिद्वाचैव सर्वं समुपाश्नुते तत् ।मनस्तु यत्कर्म करोति किंचिन्मनःस्थ एवायमुपाश्नुते तत् ॥ १९ ॥
यथागुणं कर्मगणं फलार्थी करोत्ययं कर्मफले निविष्टः ।तथा तथायं गुणसंप्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति ॥ २० ॥
मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म ।शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥ २१ ॥
यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् ।यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत् ॥ २२ ॥
रसैर्वियुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च ।अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं ससृजे प्रजानाम् ॥ २३ ॥
न स्त्री पुमान्वापि नपुंसकं च न सन्न चासत्सदसच्च तन्न ।पश्यन्ति यद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि ॥ २४ ॥
« »