Click on words to see what they mean.

युधिष्ठिर उवाच ।किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते ।ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह ॥ १ ॥
अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया ।संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ॥ २ ॥
भीष्म उवाच ।तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो ।यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः ॥ ३ ॥
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः ।सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्वचः ॥ ४ ॥
फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् ।भवता चाभ्यनुज्ञातो जपेयं भूय एव हि ॥ ५ ॥
वरश्च मम पूर्वं हि देव्या दत्तो महाबल ।श्रद्धा ते जपतो नित्यं भवितेति विशां पते ॥ ६ ॥
राजोवाच ।यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव ।गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ॥ ७ ॥
ब्राह्मण उवाच ।कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह ।सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः ॥ ८ ॥
भीष्म उवाच ।व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः ।सह देवैरुपययौ लोकपालैस्तथैव च ॥ ९ ॥
साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च ।नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥ १० ॥
तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती ।नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः ॥ ११ ॥
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः ।नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ।विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् ॥ १२ ॥
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो ।पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ।ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः ॥ १३ ॥
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् ।संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥ १४ ॥
अथ तौ सहितौ राजन्नन्योन्येन विधानतः ।विषयप्रतिसंहारमुभावेव प्रचक्रतुः ॥ १५ ॥
प्राणापानौ तथोदानं समानं व्यानमेव च ।एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥ १६ ॥
उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ ।कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ ॥ १७ ॥
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ ।जितासनौ तथाधाय मूर्धन्यात्मानमेव च ॥ १८ ॥
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः ।ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥ १९ ॥
हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् ।तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥ २० ॥
ततः स्वागतमित्याह तत्तेजः स पितामहः ।प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते ॥ २१ ॥
भूयश्चैवापरं प्राह वचनं मधुरं स्म सः ।जापकैस्तुल्यफलता योगानां नात्र संशयः ॥ २२ ॥
योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् ।जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् ॥ २३ ॥
उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः ।अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः ॥ २४ ॥
राजाप्येतेन विधिना भगवन्तं पितामहम् ।यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥ २५ ॥
स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन् ।जापकार्थमयं यत्नस्तदर्थं वयमागताः ॥ २६ ॥
कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ ।योगजापकयोर्दृष्टं फलं सुमहदद्य वै ।सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् ॥ २७ ॥
ब्रह्मोवाच ।महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् ।तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥ २८ ॥
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः ।विधिनानेन देहान्ते मम लोकानवाप्नुयात् ।गम्यतां साधयिष्यामि यथास्थानानि सिद्धये ॥ २९ ॥
भीष्म उवाच ।इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत ।आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् ॥ ३० ॥
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै ।पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः ॥ ३१ ॥
एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता ।यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥ ३२ ॥
« »