Click on words to see what they mean.

युधिष्ठिर उवाच ।कालमृत्युयमानां च ब्राह्मणस्य च सत्तम ।विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥ २ ॥
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ॥ ३ ॥
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ ४ ॥
तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च ।वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥ ५ ॥
सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् ।तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥ ६ ॥
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत् ॥ ७ ॥
तस्यानुकम्पया देवी प्रीता समभवत्तदा ।वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥ ८ ॥
समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा ।पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥ ९ ॥
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ॥ १० ॥
सावित्र्युवाच ।किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥ ११ ॥
भीष्म उवाच ।इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥ १२ ॥
मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥ १३ ॥
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।निरयं नैव यातासि यत्र याता द्विजर्षभाः ॥ १४ ॥
यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् ।साधये भविता चैतद्यत्त्वयाहमिहार्थिता ॥ १५ ॥
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति ।कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।भविता च विवादोऽत्र तव तेषां च धर्मतः ॥ १६ ॥
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ।ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ॥ १७ ॥
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥ १८ ॥
धर्म उवाच ।द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु ॥ १९ ॥
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि ॥ २० ॥
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ॥ २१ ॥
ब्राह्मण उवाच ।कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् ।बहुदुःखसुखं देहं नोत्सृजेयमहं विभो ॥ २२ ॥
धर्म उवाच ।अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव ।स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ॥ २३ ॥
ब्राह्मण उवाच ।न रोचये स्वर्गवासं विना देहादहं विभो ।गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ॥ २४ ॥
धर्म उवाच ।अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥ २५ ॥
ब्राह्मण उवाच ।रमे जपन्महाभाग कृतं लोकैः सनातनैः ।सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ॥ २६ ॥
धर्म उवाच ।यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥ २७ ॥
भीष्म उवाच ।अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् ॥ २८ ॥
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥ २९ ॥
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥ ३० ॥
मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।कालेन चोदितं विप्र त्वामितो नेतुमद्य वै ॥ ३१ ॥
ब्राह्मण उवाच ।स्वागतं सूर्यपुत्राय कालाय च महात्मने ।मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ ३२ ॥
भीष्म उवाच ।अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे ।अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥ ३३ ॥
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥ ३४ ॥
सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च ।कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥ ३५ ॥
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च ।अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥ ३६ ॥
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे ॥ ३७ ॥
राजोवाच ।राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः ।ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे ॥ ३८ ॥
ब्राह्मण उवाच ।द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः ।प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ॥ ३९ ॥
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप ।अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते ।ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥ ४० ॥
राजोवाच ।क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ॥ ४१ ॥
ब्राह्मण उवाच ।तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥ ४२ ॥
राजोवाच ।स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् ।याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥ ४३ ॥
ब्राह्मण उवाच ।युद्धं मम सदा वाणी याचतीति विकत्थसे ।न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ ४४ ॥
राजोवाच ।वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥ ४५ ॥
ब्राह्मण उवाच ।सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥ ४६ ॥
राजोवाच ।यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥ ४७ ॥
ब्राह्मण उवाच ।परमं गृह्यतां तस्य फलं यज्जपितं मया ।अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ॥ ४८ ॥
अथ वा सर्वमेवेह जप्यकं मामकं फलम् ।राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥ ४९ ॥
राजोवाच ।कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ॥ ५० ॥
ब्राह्मण उवाच ।फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥ ५१ ॥
राजोवाच ।अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति ।प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥ ५२ ॥
ब्राह्मण उवाच ।नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया ।वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ॥ ५३ ॥
नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन ।जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ॥ ५४ ॥
ददस्वेति त्वया चोक्तं ददामीति तथा मया ।न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥ ५५ ॥
अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।महानधर्मो भविता तव राजन्मृषाकृतः ॥ ५६ ॥
न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम ।तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ॥ ५७ ॥
संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥ ५८ ॥
इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः ।तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ॥ ५९ ॥
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।कुत एवावरान्राजन्मृषावादपरायणः ॥ ६० ॥
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।तथा सत्यं परे लोके यथा वै पुरुषर्षभ ॥ ६१ ॥
तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः ।समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥ ६२ ॥
सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः ।सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥ ६३ ॥
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ ६४ ॥
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः ।व्रतचर्यास्तथा सत्यमोंकारः सत्यमेव च ॥ ६५ ॥
प्राणिनां जननं सत्यं सत्यं संततिरेव च ।सत्येन वायुरभ्येति सत्येन तपते रविः ॥ ६६ ॥
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥ ६७ ॥
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् ॥ ६८ ॥
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥ ६९ ॥
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥ ७० ॥
यदि जप्यफलं दत्तं मया नेषिष्यसे नृप ।स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥ ७१ ॥
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ॥ ७२ ॥
राजोवाच ।योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥ ७३ ॥
ब्राह्मण उवाच ।न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥ ७४ ॥
धर्म उवाच ।अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥ ७५ ॥
स्वर्ग उवाच ।स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥ ७६ ॥
राजोवाच ।कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् ।विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ॥ ७७ ॥
ब्राह्मण उवाच ।बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः ।निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ॥ ७८ ॥
निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् ।स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥ ७९ ॥
राजोवाच ।यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् ।आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह ॥ ८० ॥
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥ ८१ ॥
मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि ।प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥ ८२ ॥
भीष्म उवाच ।ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ ।गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ॥ ८३ ॥
न मे धारयसीत्येको धारयामीति चापरः ।इहास्ति नौ विवादोऽयमयं राजानुशासकः ॥ ८४ ॥
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् ।अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ॥ ८५ ॥
तावुभौ भृशसंतप्तौ राजानमिदमूचतुः ।परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ॥ ८६ ॥
विरूप उवाच ।धारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।ददतश्च न गृह्णाति विकृतो मे महीपते ॥ ८७ ॥
विकृत उवाच ।न मे धारयते किंचिद्विरूपोऽयं नराधिप ।मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ॥ ८८ ॥
राजोवाच ।विरूप किं धारयते भवानस्य वदस्व मे ।श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ॥ ८९ ॥
विरूप उवाच ।शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥ ९० ॥
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ ।धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ ९१ ॥
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना ॥ ९२ ॥
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ॥ ९३ ॥
ते चोञ्छवृत्तये राजन्मया समपवर्जिते ।यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥ ९४ ॥
इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् ।एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ॥ ९५ ॥
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप ।कुरु धर्ममधर्मं वा विनये नौ समाधय ॥ ९६ ॥
यदि नेच्छति मे दानं यथा दत्तमनेन वै ।भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः ॥ ९७ ॥
राजोवाच ।दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ॥ ९८ ॥
विकृत उवाच ।दीयतामित्यनेनोक्तं ददानीति तथा मया ।नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ॥ ९९ ॥
राजोवाच ।ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥ १०० ॥
विकृत उवाच ।मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो ॥ १०१ ॥
विरूप उवाच ।दीयमानं यदि मया नेषिष्यसि कथंचन ।नियंस्यति त्वा नृपतिरयं धर्मानुशासकः ॥ १०२ ॥
विकृत उवाच ।स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् ।गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥ १०३ ॥
ब्राह्मण उवाच ।श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥ १०४ ॥
राजोवाच ।प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा ।जापकस्य दृढीकारः कथमेतद्भविष्यति ॥ १०५ ॥
यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् ।कथं न लिप्येयमहं दोषेण महताद्य वै ॥ १०६ ॥
भीष्म उवाच ।तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥ १०७ ॥
स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः ।विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ॥ १०८ ॥
ब्राह्मण उवाच ।गृहाण धारयेऽहं ते याचितं ते श्रुतं मया ।न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥ १०९ ॥
राजोवाच ।धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥ ११० ॥
एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः ।यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥ १११ ॥
ब्राह्मण उवाच ।संहितां जपता यावान्मया कश्चिद्गुणः कृतः ।तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे ॥ ११२ ॥
राजोवाच ।जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥ ११३ ॥
विरूप उवाच ।कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् ।समेति च यदुक्तं ते समा लोकास्तवास्य च ॥ ११४ ॥
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता ।कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥ ११५ ॥
सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव ।गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥ ११६ ॥
भीष्म उवाच ।जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता ।गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥ ११७ ॥
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा ॥ ११८ ॥
स तैजसेन भावेन यदि तत्राश्नुते रतिम् ।गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ॥ ११९ ॥
एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥ १२० ॥
अथ तत्र विरागी स गच्छति त्वथ संशयम् ।परमव्ययमिच्छन्स तमेवाविशते पुनः ॥ १२१ ॥
अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् ।ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ॥ १२२ ॥
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥ १२३ ॥
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः ।पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ॥ १२४ ॥
अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति ।यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥ १२५ ॥
अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् ।निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ॥ १२६ ॥
एवमेषा महाराज जापकस्य गतिर्यथा ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १२७ ॥
« »