Click on words to see what they mean.

युधिष्ठिर उवाच ।गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह ।एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥ १ ॥
भीष्म उवाच ।शृणुष्वावहितो राजञ्जापकानां गतिं विभो ।यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥ २ ॥
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ।एकदेशक्रियश्चात्र निरयं स निगच्छति ॥ ३ ॥
अवज्ञानेन कुरुते न तुष्यति न शोचति ।ईदृशो जापको याति निरयं नात्र संशयः ॥ ४ ॥
अहंकारकृतश्चैव सर्वे निरयगामिनः ।परावमानी पुरुषो भविता निरयोपगः ॥ ५ ॥
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः ।यत्राभिध्यां स कुरुते तं वै निरयमृच्छति ॥ ६ ॥
अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते ।स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥ ७ ॥
रागेण जापको जप्यं कुरुते तत्र मोहितः ।यत्रास्य रागः पतति तत्र तत्रोपजायते ॥ ८ ॥
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति ।चलामेव गतिं याति निरयं वाधिगच्छति ॥ ९ ॥
अकृतप्रज्ञको बालो मोहं गच्छति जापकः ।स मोहान्निरयं याति तत्र गत्वानुशोचति ॥ १० ॥
दृढग्राही करोमीति जप्यं जपति जापकः ।न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥ ११ ॥
युधिष्ठिर उवाच ।अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् ।सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् ॥ १२ ॥
भीष्म उवाच ।दुष्प्रज्ञानेन निरया बहवः समुदाहृताः ।प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥ १३ ॥
« »