Click on words to see what they mean.

भृगुरुवाच ।न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च ।याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ १ ॥
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥ २ ॥
भरद्वाज उवाच ।अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते ।इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ॥ ३ ॥
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ।गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ॥ ४ ॥
भृगुरुवाच ।समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते ।आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ॥ ५ ॥
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ।न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ॥ ६ ॥
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ।वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥ ७ ॥
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् ।पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥ ८ ॥
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च ।आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति ।तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ॥ ९ ॥
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ॥ १० ॥
भरद्वाज उवाच ।यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ ११ ॥
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते ।शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् ॥ १२ ॥
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये ।भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ १३ ॥
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् ।शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ॥ १४ ॥
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् ।महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ १५ ॥
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा ।मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति ॥ १६ ॥
न पश्यति न च ब्रूते न शृणोति न जिघ्रति ।न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ॥ १७ ॥
हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः ।इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ॥ १८ ॥
भृगुरुवाच ।न पञ्चसाधारणमत्र किंचिच्छरीरमेको वहतेऽन्तरात्मा ।स वेत्ति गन्धांश्च रसाञ्श्रुतिं च स्पर्शं च रूपं च गुणाश्च येऽन्ये ॥ १९ ॥
पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा ।स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहः ॥ २० ॥
यदा न रूपं न स्पर्शो नोष्मभावश्च पावके ।तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति ॥ २१ ॥
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् ।तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥ २२ ॥
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ।तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ २३ ॥
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ॥ २४ ॥
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् ।ततः परं क्षेत्रविदं वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ २५ ॥
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मृत इत्यबुद्धाः ।जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥ २६ ॥
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ २७ ॥
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः ।लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २८ ॥
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ।प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ २९ ॥
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ।सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥ ३० ॥
« »