Click on words to see what they mean.

वैशंपायन उवाच ।तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् ।संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः ॥ १ ॥
कथयन्ति पुरावृत्तमितिहासमिमं जनाः ।विदेहराज्ञः संवादं भार्यया सह भारत ॥ २ ॥
उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् ।विदेहराजं महिषी दुःखिता प्रत्यभाषत ॥ ३ ॥
धनान्यपत्यं मित्राणि रत्नानि विविधानि च ।पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ॥ ४ ॥
तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिंचनम् ।धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ॥ ५ ॥
तमुवाच समागम्य भर्तारमकुतोभयम् ।क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥ ६ ॥
कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् ।कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः ॥ ७ ॥
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव ।यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ॥ ८ ॥
नैतेनातिथयो राजन्देवर्षिपितरस्तथा ।शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥ ९ ॥
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव ।सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥ १० ॥
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः ।भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ॥ ११ ॥
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे ।अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ॥ १२ ॥
अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते ।त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ॥ १३ ॥
ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि ।राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ॥ १४ ॥
नैव तेऽस्ति परो लोको नापरः पापकर्मणः ।धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥ १५ ॥
स्रजो गन्धानलंकारान्वासांसि विविधानि च ।किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः ॥ १६ ॥
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् ।आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे ॥ १७ ॥
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत ।बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥ १८ ॥
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् ।वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ॥ १९ ॥
यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः ।यदानेन समं सर्वं किमिदं मम दीयते ।धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ॥ २० ॥
का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः ।प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ।प्रासादं शयनं यानं वासांस्याभरणानि च ॥ २१ ॥
श्रिया निराशैरधनैस्त्यक्तमित्रैरकिंचनैः ।सौखिकैः संभृतानर्थान्यः संत्यजसि किं नु तत् ॥ २२ ॥
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि ।तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥ २३ ॥
सदैव याचमानेषु सत्सु दम्भविवर्जिषु ।एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ॥ २४ ॥
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति ।सदैव याचमानो वै तथा शाम्यति न द्विजः ॥ २५ ॥
सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा ।न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥ २६ ॥
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च ।अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ॥ २७ ॥
गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः ।प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ॥ २८ ॥
त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् ।ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ॥ २९ ॥
असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः ।समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥ ३० ॥
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः ।सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् ॥ ३१ ॥
त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये ।त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ॥ ३२ ॥
अनिष्कषाये काषायमीहार्थमिति विद्धि तत् ।धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ॥ ३३ ॥
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् ।बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥ ३४ ॥
अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् ।ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ॥ ३५ ॥
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते ।सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः ॥ ३६ ॥
एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः ।आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः ॥ ३७ ॥
पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः ।इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ॥ ३८ ॥
« »