Click on words to see what they mean.

युधिष्ठिर उवाच ।कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् ।प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ॥ १ ॥
ससागरः सगगनः सशैलः सबलाहकः ।सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ २ ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥ ३ ॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥ ४ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥ ५ ॥
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा ।भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ ६ ॥
ससागरः सगगनः सशैलः सबलाहकः ।सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ ७ ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥ ८ ॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।परलोकमिमं चापि सर्वं शंसतु नो भवान् ॥ ९ ॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥ १० ॥
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः ।अनादिनिधनो देवस्तथाभेद्योऽजरामरः ॥ ११ ॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः ।यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥ १२ ॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः ।आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ १३ ॥
आकाशादभवद्वारि सलिलादग्निमारुतौ ।अग्निमारुतसंयोगात्ततः समभवन्मही ॥ १४ ॥
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥ १५ ॥
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः ॥ १६ ॥
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी ।समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥ १७ ॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥ १८ ॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ ।दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः ॥ १९ ॥
स एव भगवान्विष्णुरनन्त इति विश्रुतः ।सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥ २० ॥
अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै ।यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ २१ ॥
भरद्वाज उवाच ।गगनस्य दिशां चैव भूतलस्यानिलस्य च ।कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः ॥ २२ ॥
भृगुरुवाच ।अनन्तमेतदाकाशं सिद्धचारणसेवितम् ।रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥ २३ ॥
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः ।तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः ॥ २४ ॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ॥ २५ ॥
उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः ।निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥ २६ ॥
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ २७ ॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः ।तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ २८ ॥
एवमन्तं भगवतः प्रमाणं सलिलस्य च ।अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥ २९ ॥
अग्निमारुततोयानां वर्णाः क्षितितलस्य च ।आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् ॥ ३० ॥
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ।अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् ॥ ३१ ॥
सिद्धानां देवतानां च यदा परिमिता गतिः ।तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ।नामधेयानुरूपस्य मानसस्य महात्मनः ॥ ३२ ॥
यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः ।कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ॥ ३३ ॥
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ ३४ ॥
भरद्वाज उवाच ।पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम् ।ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥ ३५ ॥
भृगुरुवाच ।मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ ३६ ॥
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ।तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ॥ ३७ ॥
« »