Click on words to see what they mean.

युधिष्ठिर उवाच ।यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।आत्मनानर्थयुक्तेन पापे निविशते मनः ।स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ २ ॥
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥ ३ ॥
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥ ४ ॥
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ ५ ॥
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥ ६ ॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ ७ ॥
सुशीघ्रमपि धावन्तं विधानमनुधावति ।शेते सह शयानेन येन येन यथा कृतम् ॥ ८ ॥
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।करोति कुर्वतः कर्म छायेवानुविधीयते ॥ ९ ॥
येन येन यथा यद्यत्पुरा कर्म समाचितम् ।तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ १० ॥
स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् ।भूतग्राममिमं कालः समन्तात्परिकर्षति ॥ ११ ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १२ ॥
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ ।प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः ॥ १३ ॥
आत्मना विहितं दुःखमात्मना विहितं सुखम् ।गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥ १४ ॥
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ १५ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १६ ॥
समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा ।उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥ १७ ॥
दीर्घकालेन तपसा सेवितेन तपोवने ।धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥ १८ ॥
शकुनीनामिवाकाशे मत्स्यानामिव चोदके ।पदं यथा न दृश्येत तथा ज्ञानविदां गतिः ॥ १९ ॥
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ २० ॥
« »