Click on words to see what they mean.

युधिष्ठिर उवाच ।बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १ ॥
भीष्म उवाच ।प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ २ ॥
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये ।प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ ३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ ४ ॥
वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् ।रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ ५ ॥
आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् ।मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ ६ ॥
तथा मुमूर्षुमासीनमकूजन्तमचेतसम् ।इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ॥ ७ ॥
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ ८ ॥
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ॥ ९ ॥
सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः ।संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १० ॥
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ॥ ११ ॥
न पाणिलाभादधिको लाभः कश्चन विद्यते ।अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ॥ १२ ॥
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च ॥ १३ ॥
हिमवर्षातपानां च परित्राणानि कुर्वते ।चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १४ ॥
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १५ ॥
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १६ ॥
दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः ।न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १७ ॥
एतावतापि लाभेन तोष्टुमर्हसि काश्यप ।किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १८ ॥
इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे ।नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ १९ ॥
अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् ।नेतः पापीयसीं योनिं पतेयमपरामिति ॥ २० ॥
मध्ये वै पापयोनीनां सार्गाली यामहं गतः ।पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ २१ ॥
जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः ।नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ २२ ॥
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ २३ ॥
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ २४ ॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ २५ ॥
अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि ।सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ २६ ॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ २७ ॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ २८ ॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ २९ ॥
यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप ।येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ॥ ३० ॥
अप्राशनमसंस्पर्शमसंदर्शनमेव च ।पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ ३१ ॥
पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः ।मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ ३२ ॥
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ ३३ ॥
अपरे बाहुबलिनः कृतविद्या मनस्विनः ।जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ॥ ३४ ॥
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ ३५ ॥
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ ३६ ॥
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ॥ ३७ ॥
यदि ब्राह्मण देहस्ते निरातङ्को निरामयः ।अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ ३८ ॥
न केनचित्प्रवादेन सत्येनैवापहारिणा ।धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ ३९ ॥
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ॥ ४० ॥
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ ४१ ॥
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ॥ ४२ ॥
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥ ४३ ॥
नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः ।संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् ॥ ४४ ॥
अहमासं पण्डितको हैतुको वेदनिन्दकः ।आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ ४५ ॥
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ॥ ४६ ॥
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ ४७ ॥
अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ ४८ ॥
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः ।ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥ ४९ ॥
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।अहो बतासि कुशलो बुद्धिमानिति विस्मितः ॥ ५० ॥
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ॥ ५१ ॥
ततः संपूजयामास काश्यपो हरिवाहनम् ।अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ॥ ५२ ॥
« »