Click on words to see what they mean.

युधिष्ठिर उवाच ।केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ २ ॥
चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् ।पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ॥ ३ ॥
स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः ।सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४ ॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे ॥ ५ ॥
स्रोतसा ह्रियमाणासु प्रजास्वविमना इव ।धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६ ॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७ ॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ ८ ॥
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ॥ ९ ॥
पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः ।ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १० ॥
स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः ।स्वभावनिरताः सर्वाः परितप्ये न केनचित् ॥ ११ ॥
पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् ।संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२ ॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥ १३ ॥
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४ ॥
जङ्गमस्थावराणां च भूतानामसुराधिप ।पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १५ ॥
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् ।उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि ॥ १६ ॥
दिवि संचरमाणानि ह्रस्वानि च महान्ति च ।ज्योतींषि च यथाकालं पतमानानि लक्षये ॥ १७ ॥
इति भूतानि संपश्यन्ननुषक्तानि मृत्युना ।सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १८ ॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १९ ॥
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु ।पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते ॥ २० ॥
कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे ।भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ २१ ॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते ॥ २२ ॥
धारयामि च चीराणि शाणीं क्षौमाजिनानि च ।महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ २३ ॥
न संनिपतितं धर्म्यमुपभोगं यदृच्छया ।प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४ ॥
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते निविष्टम् ।अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५ ॥
अचलितमतिरच्युतः स्वधर्मात्परिमितसंसरणः परावरज्ञः ।विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥ २६ ॥
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ २७ ॥
इदमिदमिति तृष्णयाभिभूतं जनमनवाप्तधनं विषीदमानम् ।निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥ २८ ॥
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयन्तम् ।उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥ २९ ॥
सुखमसुखमनर्थमर्थलाभं रतिमरतिं मरणं च जीवितं च ।विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३० ॥
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१ ॥
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः ।अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२ ॥
अभिगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थः ।तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३ ॥
न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च ।तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४ ॥
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरभिप्रथयद्भिरात्मकीर्तिम् ।इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५ ॥
तदहमनुनिशाम्य विप्रयातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।अनवसितमनन्तदोषपारं नृषु विहरामि विनीतरोषतृष्णः ॥ ३६ ॥
भीष्म उवाच ।अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः ।अपगतभयमन्युलोभमोहः स खलु सुखी विहरेदिमं विहारम् ॥ ३७ ॥
« »