Click on words to see what they mean.

युधिष्ठिर उवाच ।धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः ।सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह ॥ २ ॥
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः ।क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥ ३ ॥
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ ४ ॥
तयोरेकतरे मार्गे यद्येनमभिसंनयेत् ।न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत् ॥ ५ ॥
न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे ।अकामात्मापि हि सदा धुरमुद्यम्य चैव हि ॥ ६ ॥
अकिंचनः परिपतन्सुखमास्वादयिष्यसि ।अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥ ७ ॥
आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् ।अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् ॥ ८ ॥
अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः ।अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये ॥ ९ ॥
आकिंचन्यं च राज्यं च तुलया समतोलयम् ।अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ १० ॥
आकिंचन्ये च राज्ये च विशेषः सुमहानयम् ।नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥ ११ ॥
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः ।प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः ॥ १२ ॥
तं वै सदा कामचरमनुपस्तीर्णशायिनम् ।बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ १३ ॥
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः ।तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ १४ ॥
निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता ।कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ १५ ॥
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् ।सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ १६ ॥
अथैनं रूपमानश्च धनमानश्च विन्दति ।अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते ॥ १७ ॥
स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् ।परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १८ ॥
तमतिक्रान्तमर्यादमाददानं ततस्ततः ।प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ १९ ॥
एवमेतानि दुःखानि तानि तानीह मानवम् ।विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च ॥ २० ॥
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥ २१ ॥
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥ २२ ॥
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ २३ ॥
« »