Click on words to see what they mean.

युधिष्ठिर उवाच ।अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर ॥ २ ॥
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।बभूव पुत्रो मेधावी मेधावी नाम नामतः ॥ ३ ॥
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ॥ ४ ॥
धीरः किं स्वित्तात कुर्यात्प्रजानन्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥ ५ ॥
पितोवाच ।वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम् ।अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ ६ ॥
पुत्र उवाच ।एवमभ्याहते लोके समन्तात्परिवारिते ।अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ ७ ॥
पितोवाच ।कथमभ्याहतो लोकः केन वा परिवारितः ।अमोघाः काः पतन्तीह किं नु भीषयसीव माम् ॥ ८ ॥
पुत्र उवाच ।मृत्युनाभ्याहतो लोको जरया परिवारितः ।अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ॥ ९ ॥
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ॥ १० ॥
रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा ।गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ॥ ११ ॥
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् ।शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् ।वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १२ ॥
अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् ।अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥ १३ ॥
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ।को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ॥ १४ ॥
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ।कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १५ ॥
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ १६ ॥
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् ।सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति ॥ १७ ॥
संचिन्वानकमेवैकं कामानामवितृप्तकम् ।व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ १८ ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ १९ ॥
कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् ।क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ २० ॥
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ २१ ॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ २२ ॥
मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः ।देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ २३ ॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ २४ ॥
न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः ।जीवितार्थापनयनैः कर्मभिर्न स बध्यते ॥ २५ ॥
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ २६ ॥
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् ॥ २७ ॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ २८ ॥
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ॥ २९ ॥
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने ॥ ३० ॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ।अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥ ३१ ॥
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा ।तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् ॥ ३२ ॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ ३३ ॥
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा ।आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ ३४ ॥
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।शीले स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ ३५ ॥
किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि ।आत्मानमन्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च ॥ ३६ ॥
भीष्म उवाच ।पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप ।तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ ३७ ॥
« »