Click on words to see what they mean.

शौनक उवाच ।तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे ।श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे ।पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ॥ १ ॥
अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव ।कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ।यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ॥ २ ॥
हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः ।इत्येतदपि भूतानामद्भुतं जनमेजय ॥ ३ ॥
यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः ।अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ॥ ४ ॥
एतदेव हि कार्पण्यं समग्रमसमीक्षितम् ।तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥ ५ ॥
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥ ६ ॥
तदेव राज्ञां परमं पवित्रं जनमेजय ।तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥ ७ ॥
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।अपि ह्युदाहरन्तीमा गाथा गीता ययातिना ॥ ८ ॥
यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः ।यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥ ९ ॥
पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् ।यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ॥ १० ॥
महासरः पुष्कराणि प्रभासोत्तरमानसे ।कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः ॥ ११ ॥
सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः ।स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः ॥ १२ ॥
त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत् ।अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ॥ १३ ॥
यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् ।न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥ १४ ॥
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ।त्यजतां जीवितं प्रायो विवृते पुण्यपातके ॥ १५ ॥
यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते ।बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ॥ १६ ॥
यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः ।ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ॥ १७ ॥
यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय ।अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा ॥ १८ ॥
आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः ।घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् ॥ १९ ॥
हिमाग्निघोरसदृशो राजा भवति कश्चन ।लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप ॥ २० ॥
न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः ।न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥ २१ ॥
विकर्मणा तप्यमानः पादात्पापस्य मुच्यते ।नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ।चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ॥ २२ ॥
कल्याणमनुमन्तव्यं पुरुषेण बुभूषता ।ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ।ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥ २३ ॥
तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते ।संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥ २४ ॥
यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः ।प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते ॥ २५ ॥
अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् ।यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥ २६ ॥
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥ २७ ॥
बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपतेऽन्वयुञ्जन् ।धर्मे फलं वेत्थ कृते महर्षे तथेतरस्मिन्नरके पापलोके ॥ २८ ॥
उभे तु यस्य सुकृते भवेतां किं स्वित्तयोस्तत्र जयोत्तरं स्यात् ।आचक्ष्व नः कर्मफलं महर्षे कथं पापं नुदते पुण्यशीलः ॥ २९ ॥
बृहस्पतिरुवाच ।कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि यः कुरुते बुद्धिपूर्वम् ।स तत्पापं नुदते पुण्यशीलो वासो यथा मलिनं क्षारयुक्त्या ॥ ३० ॥
पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः ।चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ ३१ ॥
छिद्राणि वसनस्येव साधुना विवृणोति यः ।यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥ ३२ ॥
यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति ।कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ॥ ३३ ॥
भीष्म उवाच ।एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् ।याजयामास विधिवद्वाजिमेधेन शौनकः ॥ ३४ ॥
ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलिताग्निरूपया ।विवेश राज्यं स्वममित्रकर्शनो दिवं यथा पूर्णवपुर्निशाकरः ॥ ३५ ॥
« »