Click on words to see what they mean.

भीष्म उवाच ।एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् ॥ १ ॥
धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये ।सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ॥ २ ॥
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः ।प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि ॥ ३ ॥
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् ।सर्वमन्यून्विनीय त्वमभि मा वद शौनक ॥ ४ ॥
महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः ।अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥ ५ ॥
न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति ।श्रुतीरलभमानानां संविदं वेदनिश्चयात् ॥ ६ ॥
निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम् ।भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ॥ ७ ॥
अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव ।न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ॥ ८ ॥
अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः ।ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ॥ ९ ॥
शौनक उवाच ।किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम् ।इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ॥ १० ॥
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति ॥ ११ ॥
न चोपलभते तत्र न च कार्याणि पश्यति ।निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥ १२ ॥
विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे ।कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते ॥ १३ ॥
तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम् ।अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ॥ १४ ॥
जनमेजय उवाच ।अनुतप्ये च पापेन न चाधर्मं चराम्यहम् ।बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ॥ १५ ॥
शौनक उवाच ।छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप ।सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर ॥ १६ ॥
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह ॥ १७ ॥
सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये ।क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ॥ १८ ॥
वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः ।वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् ॥ १९ ॥
केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् ।जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत ॥ २० ॥
यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु ।प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥ २१ ॥
जनमेजय उवाच ।नैव वाचा न मनसा न पुनर्जातु कर्मणा ।द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥ २२ ॥
« »