Click on words to see what they mean.

युधिष्ठिर उवाच ।मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः ।राज्ञः संक्षीणकोशस्य बलहीनस्य भारत ॥ १ ॥
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः ।राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥ २ ॥
परचक्राभियातस्य दुर्बलस्य बलीयसा ।असंविहितराष्ट्रस्य देशकालावजानतः ॥ ३ ॥
अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् ।जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् ॥ ४ ॥
भीष्म उवाच ।गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ ।अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर ॥ ५ ॥
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ ।श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ॥ ६ ॥
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः ।तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया ॥ ७ ॥
उपायं धर्मबहुलं यात्रार्थं शृणु भारत ।नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ।दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः ॥ ८ ॥
अनुगम्य गतीनां च सर्वासामेव निश्चयम् ।यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते ।तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ९ ॥
अविज्ञानादयोगश्च पुरुषस्योपजायते ।अविज्ञानादयोगो हि योगो भूतिकरः पुनः ॥ १० ॥
अशङ्कमानो वचनमनसूयुरिदं शृणु ।राज्ञः कोशक्षयादेव जायते बलसंक्षयः ॥ ११ ॥
कोशं संजनयेद्राजा निर्जलेभ्यो यथा जलम् ।कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम् ॥ १२ ॥
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः ।अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत ॥ १३ ॥
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी ।धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति ॥ १४ ॥
यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते ।तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥ १५ ॥
अधर्मो जायते यस्मिन्निति वै कवयो विदुः ।अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे ॥ १६ ॥
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा ।तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥ १७ ॥
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः ।सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥ १८ ॥
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे ।उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः ॥ १९ ॥
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति ।अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत ॥ २० ॥
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् ।अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः ॥ २१ ॥
पीडितस्य किमद्वारमुत्पथो निधृतस्य वा ।अद्वारतः प्रद्रवति यदा भवति पीडितः ॥ २२ ॥
तस्य कोशबलज्यान्या सर्वलोकपराभवः ।भैक्षचर्या न विहिता न च विट्शूद्रजीविका ॥ २३ ॥
स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः ।वहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥ २४ ॥
आपद्गतेन धर्माणामन्यायेनोपजीवनम् ।अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥ २५ ॥
क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा ।आददीत विशिष्टेभ्यो नावसीदेत्कथंचन ॥ २६ ॥
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः ।तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥ २७ ॥
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् ।अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ २८ ॥
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् ।विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥ २९ ॥
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि ।नित्यमेवेह कर्तव्या एष धर्मः सनातनः ॥ ३० ॥
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति ।राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ॥ ३१ ॥
कोशं दण्डं बलं मित्रं यदन्यदपि संचितम् ।न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा ॥ ३२ ॥
बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः ।अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥ ३३ ॥
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति ।अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः ॥ ३४ ॥
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् ।तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥ ३५ ॥
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् ।तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति ॥ ३६ ॥
अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु ।एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ॥ ३७ ॥
अर्थार्थमन्यद्भवति विपरीतमथापरम् ।अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् ।एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम् ॥ ३८ ॥
यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः ।यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् ॥ ३९ ॥
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् ।यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः ॥ ४० ॥
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि ।ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् ॥ ४१ ॥
एवं कोशस्य महतो ये नराः परिपन्थिनः ।तानहत्वा न पश्यामि सिद्धिमत्र परंतप ॥ ४२ ॥
धनेन जयते लोकावुभौ परमिमं तथा ।सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥ ४३ ॥
सर्वोपायैराददीत धनं यज्ञप्रयोजनम् ।न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥ ४४ ॥
नैतौ संभवतो राजन्कथंचिदपि भारत ।न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥ ४५ ॥
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन ।ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः ॥ ४६ ॥
न च राज्यसमो धर्मः कश्चिदस्ति परंतप ।धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा ॥ ४७ ॥
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः ।बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसंचयान् ॥ ४८ ॥
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् ।कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् ॥ ४९ ॥
« »