Click on words to see what they mean.

युधिष्ठिर उवाच ।राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत ।पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥ १ ॥
तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम् ।प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥ २ ॥
भीष्म उवाच ।रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् ।तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥ ३ ॥
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ॥ ४ ॥
तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च ।मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति ॥ ५ ॥
यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत् ।बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥ ६ ॥
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी ।श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः ॥ ७ ॥
आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव ।शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ॥ ८ ॥
अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् ।नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः ।लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् ॥ ९ ॥
मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् ।जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः ॥ १० ॥
दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् ।काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् ॥ ११ ॥
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् ।श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् ॥ १२ ॥
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने ।मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् ।न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ॥ १३ ॥
चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् ।पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः ॥ १४ ॥
हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् ।नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् ॥ १५ ॥
सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् ।सर्वतश्चाददेत्प्रज्ञां पतंगान्गहनेष्विव ।एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् ॥ १६ ॥
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः ।आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् ।बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥ १७ ॥
परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् ।आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ।सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः ॥ १८ ॥
निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा ।संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ।स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥ १९ ॥
अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः ।आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥ २० ॥
क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् ।स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥ २१ ॥
अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु ।सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता ॥ २२ ॥
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।ममायमिति राजा यः स पर्वत इवाचलः ॥ २३ ॥
व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् ।धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥ २४ ॥
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः ।मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् ॥ २५ ॥
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् ।स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः ॥ २६ ॥
एतेनैव प्रकारेण कृत्यानामागतिं गतिम् ।युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः ॥ २७ ॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा ॥ २८ ॥
व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः ।गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ॥ २९ ॥
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् ।चारांश्च नचरान्विद्यात्तथा बुद्ध्या न संज्वरेत् ॥ ३० ॥
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ॥ ३१ ॥
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः ।तथा द्रव्यमुपादाय राजा कुर्वीत संचयम् ॥ ३२ ॥
यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः ।संचयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥ ३३ ॥
नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान् ।बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् ॥ ३४ ॥
धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या धैर्यं शौर्यं देशकालोऽप्रमादः ।स्वल्पस्य वा महतो वापि वृद्धौ धनस्यैतान्यष्ट समिन्धनानि ॥ ३५ ॥
अग्निस्तोको वर्धते ह्याज्यसिक्तो बीजं चैकं बहुसाहस्रमेति ।क्षयोदयौ विपुलौ संनिशाम्य तस्मादल्पं नावमन्येत विद्वान् ॥ ३६ ॥
बालोऽबालः स्थविरो वा रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात् ।कालेनान्यस्तस्य मूलं हरेत कालज्ञाता पार्थिवानां वरिष्ठः ॥ ३७ ॥
हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे दीर्घं वीर्यमस्योपहन्यात् ।रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रौ नैव हेडेद्यतात्मा ॥ ३८ ॥
क्षयं शत्रोः संचयं पालनं चाप्युभौ चार्थौ सहितौ धर्मकामौ ।अतश्चान्यन्मतिमान्संदधीत तस्माद्राजा बुद्धिमन्तं श्रयेत ॥ ३९ ॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या वर्धते पाल्यमानम् ।शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् ॥ ४० ॥
सर्वान्कामान्कामयानो हि धीरः सत्त्वेनाल्पेनाप्लुते हीनदेहः ।यथात्मानं प्रार्थयतेऽर्थमानैः श्रेयःपात्रं पूरयते ह्यनल्पम् ॥ ४१ ॥
तस्माद्राजा प्रगृहीतः परेषु मूलं लक्ष्म्याः सर्वतोऽभ्याददीत ।दीर्घं कालमपि संपीड्यमानो विद्युत्संपातमिव मानोर्जितः स्यात् ॥ ४२ ॥
विद्या तपो वा विपुलं धनं वा सर्वमेतद्व्यवसायेन शक्यम् ।ब्रह्म यत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥ ४३ ॥
यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च ।वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम् ॥ ४४ ॥
लुब्धं हन्यात्संप्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति ।सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति ॥ ४५ ॥
धनं भोज्यं पुत्रदारं समृद्धिं सर्वो लुब्धः प्रार्थयते परेषाम् ।लुब्धे दोषाः संभवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धान् ॥ ४६ ॥
संदर्शने सत्पुरुषं जघन्यमपि चोदयेत् ।आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् ॥ ४७ ॥
धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव ।आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसंग्रहे ॥ ४८ ॥
विधिप्रवृत्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या ।इमान्विदध्याद्व्यनुसृत्य यो वै राजा महीं पालयितुं स शक्तः ॥ ४९ ॥
अनीतिजं यद्यविधानजं सुखं हठप्रणीतं विविधं प्रदृश्यते ।न विद्यते तस्य गतिर्महीपतेर्न विद्यते राष्ट्रजमुत्तमं सुखम् ॥ ५० ॥
धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान् ।गुणेषु दृष्टानचिरादिहात्मवान्सतोऽभिसंधाय निहन्ति शात्रवान् ॥ ५१ ॥
पश्येदुपायान्विविधैः क्रियापथैर्न चानुपायेन मतिं निवेशयेत् ।श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते ॥ ५२ ॥
प्रीतिप्रवृत्तौ विनिवर्तने तथा सुहृत्सु विज्ञाय निवृत्य चोभयोः ।यदेव मित्रं गुरुभारमावहेत्तदेव सुस्निग्धमुदाहरेद्बुधः ॥ ५३ ॥
एतान्मयोक्तांस्तव राजधर्मान्नृणां च गुप्तौ मतिमादधत्स्व ।अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोकोत्तमधर्ममूलः ॥ ५४ ॥
« »