Click on words to see what they mean.

युधिष्ठिर उवाच ।विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत ।आक्रुश्यमानः सदसि कथं कुर्यादरिंदम ॥ १ ॥
भीष्म उवाच ।श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते ।सदा सुचेताः सहते नरस्येहाल्पचेतसः ॥ २ ॥
अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति ।दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥ ३ ॥
टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम् ।लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥ ४ ॥
इति स श्लाघते नित्यं तेन पापेन कर्मणा ।इदमुक्तो मया कश्चित्संमतो जनसंसदि ।स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति ॥ ५ ॥
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः ।उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥ ६ ॥
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा ।प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति ।वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥ ७ ॥
यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः ।वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥ ८ ॥
निषेकं विपरीतं स आचष्टे वृत्तचेष्टया ।मयूर इव कौपीनं नृत्यन्संदर्शयन्निव ॥ ९ ॥
यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किंचन ।वाचं तेन न संदध्याच्छुचिः संक्लिष्टकर्मणा ॥ १० ॥
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः ।स मानवः श्ववल्लोके नष्टलोकपरायणः ॥ ११ ॥
तादृग्जनशतस्यापि यद्ददाति जुहोति च ।परोक्षेणापवादेन तन्नाशयति स क्षणात् ॥ १२ ॥
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् ।वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा ॥ १३ ॥
परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने ।प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम् ॥ १४ ॥
तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति ।भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥ १५ ॥
मनुष्यशालावृकमप्रशान्तं जनापवादे सततं निविष्टम् ।मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम् ॥ १६ ॥
अधीरजुष्टे पथि वर्तमानं दमादपेतं विनयाच्च पापम् ।अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमतिं मनुष्यम् ॥ १७ ॥
प्रत्युच्यमानस्तु हि भूय एभिर्निशाम्य मा भूस्त्वमथार्तरूपः ।उच्चस्य नीचेन हि संप्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये ॥ १८ ॥
क्रुद्धो दशार्धेन हि ताडयेद्वा स पांसुभिर्वापकिरेत्तुषैर्वा ।विवृत्य दन्तांश्च विभीषयेद्वा सिद्धं हि मूर्खे कुपिते नृशंसे ॥ १९ ॥
विगर्हणां परमदुरात्मना कृतां सहेत यः संसदि दुर्जनान्नरः ।पठेदिदं चापि निदर्शनं सदा न वाङ्मयं स लभति किंचिदप्रियम् ॥ २० ॥
« »