Click on words to see what they mean.

धृतराष्ट्र उवाच ।सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम ।भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् ।कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः ॥ २ ॥
विदुर उवाच ।यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते ।ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥ ३ ॥
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ ।कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते ॥ ४ ॥
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः ।कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् ॥ ५ ॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः ।अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥ ६ ॥
वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् ।प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥ ७ ॥
कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत ।ततो वहति तं भारमवशः स्ववशोऽपि वा ॥ ८ ॥
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते ।किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥ ९ ॥
छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा ।आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा ॥ १० ॥
अवतार्यमाणमापाकादुद्धृतं वापि भारत ।अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् ॥ ११ ॥
गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः ।अर्धमासगतो वापि मासमात्रगतोऽपि वा ॥ १२ ॥
संवत्सरगतो वापि द्विसंवत्सर एव वा ।यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते ॥ १३ ॥
प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च ।एवं सांसिद्धिके लोके किमर्थमनुतप्यसे ॥ १४ ॥
यथा च सलिले राजन्क्रीडार्थमनुसंचरन् ।उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप ॥ १५ ॥
एवं संसारगहनादुन्मज्जननिमज्जनात् ।कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः ॥ १६ ॥
ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः ।समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ १७ ॥
« »