Click on words to see what they mean.

गान्धार्युवाच ।एष शल्यो हतः शेते साक्षान्नकुलमातुलः ।धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥ १ ॥
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।स एष निहतः शेते मद्रराजो महारथः ॥ २ ॥
येन संगृह्णता तात रथमाधिरथेर्युधि ।जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥ ३ ॥
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् ।मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ॥ ४ ॥
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा ।आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥ ५ ॥
युधिष्ठिरेण निहतं शल्यं समितिशोभनम् ।रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥ ६ ॥
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् ।क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥ ७ ॥
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः ।वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥ ८ ॥
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् ।शयानं वीरशयने शरैर्विशकलीकृतम् ॥ ९ ॥
एष शैलालयो राजा भगदत्तः प्रतापवान् ।गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥ १० ॥
यस्य रुक्ममयी माला शिरस्येषा विराजते ।श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥ ११ ॥
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥ १२ ॥
योधयित्वा महाबाहुरेष पार्थं धनंजयम् ।संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ १३ ॥
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन ।स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥ १४ ॥
पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम् ।युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥ १५ ॥
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥ १६ ॥
शरतल्पगतं वीरं धर्मे देवापिना समम् ।शयानं वीरशयने पश्य शूरनिषेविते ॥ १७ ॥
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥ १८ ॥
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ १९ ॥
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।एष शांतनवः शेते माधवाप्रतिमो युधि ॥ २० ॥
धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये ।अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥ २१ ॥
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी ।यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः ॥ २२ ॥
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः ।धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥ २३ ॥
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः ।स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥ २४ ॥
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव ।गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥ २५ ॥
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा ।तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ॥ २६ ॥
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥ २७ ॥
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥ २८ ॥
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् ।सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥ २९ ॥
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् ।स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥ ३० ॥
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥ ३१ ॥
वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव ।अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥ ३२ ॥
वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ ३३ ॥
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन ।कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥ ३४ ॥
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥ ३५ ॥
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥ ३६ ॥
प्रेतकृत्ये च यतते कृपी कृपणमातुरा ।हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥ ३७ ॥
अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः ।द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥ ३८ ॥
किरन्ति च चितामेते जटिला ब्रह्मचारिणः ।धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥ ३९ ॥
शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥ ४० ॥
सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे ।अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥ ४१ ॥
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥ ४२ ॥
« »