Click on words to see what they mean.

गान्धार्युवाच ।एष वैकर्तनः शेते महेष्वासो महारथः ।ज्वलितानलवत्संख्ये संशान्तः पार्थतेजसा ॥ १ ॥
पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् ।शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥ २ ॥
अमर्षी दीर्घरोषश्च महेष्वासो महारथः ।रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥ ३ ॥
यं स्म पाण्डवसंत्रासान्मम पुत्रा महारथाः ।प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ॥ ४ ॥
शार्दूलमिव सिंहेन समरे सव्यसाचिना ।मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ॥ ५ ॥
समेताः पुरुषव्याघ्र निहतं शूरमाहवे ।प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ॥ ६ ॥
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः ।त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत ॥ ७ ॥
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव ।युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ॥ ८ ॥
स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव ।भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ॥ ९ ॥
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् ।लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥ १० ॥
आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरा ते ।ततः शरेणापहृतं शिरस्ते धनंजयेनाहवे शत्रुमध्ये ॥ ११ ॥
अहो धिगेषा पतिता विसंज्ञा समीक्ष्य जाम्बूनदबद्धनिष्कम् ।कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता ॥ १२ ॥
अल्पावशेषो हि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः ।द्रष्टुं न संप्रीतिकरः शशीव कृष्णश्य पक्षस्य चतुर्दशाहे ॥ १३ ॥
सावर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा ।कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता ॥ १४ ॥
« »