Click on words to see what they mean.

वैशंपायन उवाच ।हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः ।शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् ॥ १ ॥
सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् ।शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ २ ॥
अन्वीयमानो वीरेण दाशार्हेण महात्मना ।युयुधानेन च तथा तथैव च युयुत्सुना ॥ ३ ॥
तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता ।सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ ४ ॥
स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम ।कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ॥ ५ ॥
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये ॥ ६ ॥
क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता ।यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि ॥ ७ ॥
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् ।मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ॥ ८ ॥
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः ।अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥ ९ ॥
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव ।ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥ १० ॥
ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः ।न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ ११ ॥
तमात्मजान्तकरणं पिता पुत्रवधार्दितः ।अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ १२ ॥
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत ।दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥ १३ ॥
स कोपपावकस्तस्य शोकवायुसमीरितः ।भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥ १४ ॥
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः ।भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥ १५ ॥
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः ।संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥ १६ ॥
तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् ।बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥ १७ ॥
नागायुतबलप्राणः स राजा भीममायसम् ।भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥ १८ ॥
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः ।प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥ १९ ॥
पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा ।मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥ २० ॥
स तु कोपं समुत्सृज्य गतमन्युर्महामनाः ।हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः ॥ २१ ॥
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् ।वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ २२ ॥
मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः ।आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता ॥ २३ ॥
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ ।मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥ २४ ॥
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन ।कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः ॥ २५ ॥
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते ।एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥ २६ ॥
तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी ।भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥ २७ ॥
पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः ।तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥ २८ ॥
न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् ।न हि पुत्रा महाराज जीवेयुस्ते कथंचन ॥ २९ ॥
तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति ।अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ॥ ३० ॥
« »