Click on words to see what they mean.

धृतराष्ट्र उवाच ।द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ ।अकुर्वतां भोजकृपौ किं संजय वदस्व मे ॥ १ ॥
संजय उवाच ।कृतवर्माणमामन्त्र्य कृपं च स महारथम् ।द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥ २ ॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥ ३ ॥
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् ।कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥ ४ ॥
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः ।बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥ ५ ॥
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् ।नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥ ६ ॥
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा ।सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥ ७ ॥
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥ ८ ॥
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः ।प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥ ९ ॥
तदत्यद्भुतमालोक्य भूतं लोकभयंकरम् ।द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥ १० ॥
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् ।उदधेरिव वार्योघान्पावको वडवामुखः ॥ ११ ॥
अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान् ।रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥ १२ ॥
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत ।युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥ १३ ॥
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् ।कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥ १४ ॥
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा ।स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥ १५ ॥
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥ १६ ॥
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥ १७ ॥
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन् ॥ १८ ॥
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः ।स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥ १९ ॥
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति ।स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥ २० ॥
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥ २१ ॥
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् ।इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥ २२ ॥
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।अमार्गेणैवमारभ्य घोरामापदमागतः ॥ २३ ॥
तां चापदं घोरतरां प्रवदन्ति मनीषिणः ।यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥ २४ ॥
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥ २५ ॥
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति ।स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥ २६ ॥
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः ।यदारभ्य क्रियां कांचिद्भयादिह निवर्तते ॥ २७ ॥
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् ।न हि द्रोणसुतः संख्ये निवर्तेत कथंचन ॥ २८ ॥
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥ २९ ॥
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः ।तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥ ३० ॥
तदिदं दैवविहितं मम संख्ये निवर्तनम् ।नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन ॥ ३१ ॥
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् ।दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥ ३२ ॥
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् ।कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥ ३३ ॥
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥ ३४ ॥
« »