Click on words to see what they mean.

कृप उवाच ।शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः ।नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥ १ ॥
तथैव तावन्मेधावी विनयं यो न शिक्षति ।न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम् ॥ २ ॥
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः ।जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥ ३ ॥
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः ।दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ॥ ४ ॥
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् ।निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥ ५ ॥
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते ।तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥ ६ ॥
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् ।प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः ॥ ७ ॥
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना ।कुरु मे वचनं तात येन पश्चान्न तप्यसे ॥ ८ ॥
न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥ ९ ॥
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः ।विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥ १० ॥
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो ।विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥ ११ ॥
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः ।व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥ १२ ॥
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः ।न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥ १३ ॥
त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ ।प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥ १४ ॥
असंभावितरूपं हि त्वयि कर्म विगर्हितम् ।शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥ १५ ॥
अश्वत्थामोवाच ।एवमेतद्यथात्थ त्वमनुशास्मीह मातुल ।तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ॥ १६ ॥
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ ।न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ १७ ॥
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः ।उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ॥ १८ ॥
तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः ।शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥ १९ ॥
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे ।क्रोशतां भूमिपालानां युयुधानेन पातितः ॥ २० ॥
दुर्योधनश्च भीमेन समेत्य गदया मृधे ।पश्यतां भूमिपालानामधर्मेण निपातितः ॥ २१ ॥
एकाकी बहुभिस्तत्र परिवार्य महारथैः ।अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥ २२ ॥
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः ।वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ॥ २३ ॥
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः ।तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥ २४ ॥
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके ।कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै ॥ २५ ॥
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् ।तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥ २६ ॥
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति ।यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥ २७ ॥
संजय उवाच ।एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् ।एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ॥ २८ ॥
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ ।किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥ २९ ॥
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ ।समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ॥ ३० ॥
अश्वत्थामा तु संक्रुद्धः पितुर्वधमनुस्मरन् ।ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ॥ ३१ ॥
हत्वा शतसहस्राणि योधानां निशितैः शरैः ।न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ ३२ ॥
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै ।पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥ ३३ ॥
कथं च निहतः पापः पाञ्चालः पशुवन्मया ।शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ॥ ३४ ॥
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ ।समास्थाय प्रतीक्षेतां रथवर्यौ परंतपौ ॥ ३५ ॥
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् ।तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥ ३६ ॥
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः ।हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥ ३७ ॥
ययुश्च शिबिरं तेषां संप्रसुप्तजनं विभो ।द्वारदेशं तु संप्राप्य द्रौणिस्तस्थौ रथोत्तमे ॥ ३८ ॥
« »