Click on words to see what they mean.

वैशंपायन उवाच ।दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ ।संजहार शरं दिव्यं त्वरमाणो धनंजयः ॥ १ ॥
उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा ।प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ २ ॥
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ ३ ॥
अत्र यद्धितमस्माकं लोकानां चैव सर्वथा ।भवन्तौ देवसंकाशौ तथा संहर्तुमर्हतः ॥ ४ ॥
इत्युक्त्वा संजहारास्त्रं पुनरेव धनंजयः ।संहारो दुष्करस्तस्य देवैरपि हि संयुगे ॥ ५ ॥
विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे ।न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ ६ ॥
ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना ।न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ॥ ७ ॥
अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः ।तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ ८ ॥
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् ।परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥ ९ ॥
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः ।गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः ॥ १० ॥
द्रौणिरप्यथ संप्रेक्ष्य तावृषी पुरतः स्थितौ ।न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ॥ ११ ॥
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ १२ ॥
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना ।मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥ १३ ॥
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता ।मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ १४ ॥
अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना ।तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे ॥ १५ ॥
विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् ।अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥ १६ ॥
तदिदं पाण्डवेयानामन्तकायाभिसंहितम् ।अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ॥ १७ ॥
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा ।वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ १८ ॥
व्यास उवाच ।अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनंजयः ।उत्सृष्टवान्न रोषेण न वधाय तवाहवे ॥ १९ ॥
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता ।विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ २० ॥
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।क्षत्रधर्मान्महाबाहुर्नाकम्पत धनंजयः ॥ २१ ॥
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः ।सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥ २२ ॥
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ २३ ॥
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ॥ २४ ॥
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः ।तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ॥ २५ ॥
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः ।न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ॥ २६ ॥
मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति ।एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ॥ २७ ॥
द्रौणिरुवाच ।पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ॥ २८ ॥
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् ।देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन ॥ २९ ॥
न च रक्षोगणभयं न तस्करभयं तथा ।एवंवीर्यो मणिरयं न मे त्याज्यः कथंचन ॥ ३० ॥
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् ।अयं मणिरयं चाहमिषीका निपतिष्यति ।गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ॥ ३१ ॥
व्यास उवाच ।एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन ।गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ ३२ ॥
वैशंपायन उवाच ।ततः परममस्त्रं तदश्वत्थामा भृशातुरः ।द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ॥ ३३ ॥
« »