Click on words to see what they mean.

संजय उवाच ।ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः ।उपास्तमयवेलायां शिबिराभ्याशमागताः ॥ १ ॥
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा ।गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥ २ ॥
सेनानिवेशमभितो नातिदूरमवस्थिताः ।निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ॥ ३ ॥
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ।श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥ ४ ॥
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ।ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥ ५ ॥
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः ।राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः ॥ ६ ॥
धृतराष्ट्र उवाच ।अश्रद्धेयमिदं कर्म कृतं भीमेन संजय ।यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥ ७ ॥
अवध्यः सर्वभूतानां वज्रसंहननो युवा ।पाण्डवैः समरे पुत्रो निहतो मम संजय ॥ ८ ॥
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥ ९ ॥
अद्रिसारमयं नूनं हृदयं मम संजय ।हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥ १० ॥
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ॥ ११ ॥
कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय ।प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥ १२ ॥
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय ।कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ॥ १३ ॥
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय ।येन पुत्रशतं पूर्णमेकेन निहतं मम ॥ १४ ॥
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः ।अकुर्वता वचस्तेन मम पुत्रेण संजय ॥ १५ ॥
अधर्मेण हते तात पुत्रे दुर्योधने मम ।कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय ॥ १६ ॥
संजय उवाच ।गत्वा तु तावका राजन्नातिदूरमवस्थिताः ।अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥ १७ ॥
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ॥ १८ ॥
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् ।नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥ १९ ॥
नानातोयसमाकीर्णं तडागैरुपशोभितम् ।पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम् ॥ २० ॥
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः ॥ २१ ॥
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥ २२ ॥
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः ।उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो ॥ २३ ॥
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥ २४ ॥
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलंकृतम् ।नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥ २५ ॥
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः ।दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ॥ २६ ॥
रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः ।क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥ २७ ॥
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥ २८ ॥
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः ।तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥ २९ ॥
निद्रया च परीताङ्गा निषेदुर्धरणीतले ।श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥ ३० ॥
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ ।सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ।तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ॥ ३१ ॥
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥ ३२ ॥
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना ।वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥ ३३ ॥
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् ।अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ॥ ३४ ॥
तत्र काकसहस्राणि तां निशां पर्यणामयन् ।सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ॥ ३५ ॥
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ॥ ३६ ॥
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ॥ ३७ ॥
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः ।न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥ ३८ ॥
संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः ।सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः ॥ ३९ ॥
केषांचिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह ।चरणांश्चैव केषांचिद्बभञ्ज चरणायुधः ॥ ४० ॥
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः ।तेषां शरीरावयवैः शरीरैश्च विशां पते ।न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत् ॥ ४१ ॥
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥ ४२ ॥
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि ।तद्भावकृतसंकल्पो द्रौणिरेको व्यचिन्तयत् ॥ ४३ ॥
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥ ४४ ॥
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः ।बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ।राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥ ४५ ॥
पतंगाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् ।न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥ ४६ ॥
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ॥ ४७ ॥
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् ।कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥ ४८ ॥
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे ।सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥ ४९ ॥
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः ।श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥ ५० ॥
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः ।प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ॥ ५१ ॥
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥ ५२ ॥
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे ।पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥ ५३ ॥
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥ ५४ ॥
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः ।स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ॥ ५५ ॥
हतो दुर्योधनो राजा एकवीरो महाबलः ।यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥ ५६ ॥
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।पातितो भीमसेनेन एकादशचमूपतिः ॥ ५७ ॥
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥ ५८ ॥
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च ।धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥ ५९ ॥
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः ।अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥ ६० ॥
अश्वानां हेषमाणानां गजानां चैव बृंहताम् ।सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥ ६१ ॥
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् ।रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥ ६२ ॥
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥ ६३ ॥
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥ ६४ ॥
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ॥ ६५ ॥
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते ।व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥ ६६ ॥
« »