Click on words to see what they mean.

भीष्म उवाच ।पुनर्भरतवंशस्य हेतुं संतानवृद्धये ।वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥ १ ॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥ २ ॥
वैशंपायन उवाच ।ततः सत्यवती भीष्मं वाचा संसज्जमानया ।विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥ ३ ॥
सत्यमेतन्महाबाहो यथा वदसि भारत ।विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च ।न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥ ४ ॥
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ।तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥ ५ ॥
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम ।सा कदाचिदहं तत्र गता प्रथमयौवने ॥ ६ ॥
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः ।आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥ ७ ॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥ ८ ॥
तमहं शापभीता च पितुर्भीता च भारत ।वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ ९ ॥
अभिभूय स मां बालां तेजसा वशमानयत् ।तमसा लोकमावृत्य नौगतामेव भारत ॥ १० ॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥ ११ ॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ १२ ॥
पाराशर्यो महायोगी स बभूव महानृषिः ।कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥ १३ ॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥ १४ ॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ।भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥ १५ ॥
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति ।तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥ १६ ॥
तव ह्यनुमते भीष्म नियतं स महातपाः ।विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥ १७ ॥
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥ १८ ॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ।यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥ १९ ॥
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ।उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥ २० ॥
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ।कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥ २१ ॥
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ।प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥ २२ ॥
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् ।परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ।मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥ २३ ॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥ २४ ॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥ २५ ॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥ २६ ॥
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ।सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥ २७ ॥
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ।तेषां पिता यथा स्वामी तथा माता न संशयः ॥ २८ ॥
विधातृविहितः स त्वं यथा मे प्रथमः सुतः ।विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥ २९ ॥
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ।भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥ ३० ॥
अयं शांतनवः सत्यं पालयन्सत्यविक्रमः ।बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥ ३१ ॥
स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च ।भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥ ३२ ॥
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ।आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥ ३३ ॥
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे ।रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ॥ ३४ ॥
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ।अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ॥ ३५ ॥
व्यास उवाच ।वेत्थ धर्मं सत्यवति परं चापरमेव च ।यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥ ३६ ॥
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ।ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥ ३७ ॥
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ।व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥ ३८ ॥
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ।न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥ ३९ ॥
सत्यवत्युवाच ।यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु ।अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥ ४० ॥
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥ ४१ ॥
व्यास उवाच ।यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् ।विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥ ४२ ॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः ।अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥ ४३ ॥
वैशंपायन उवाच ।समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः ।ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् ।धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥ ४४ ॥
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे ।भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् ॥ ४५ ॥
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् ।भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥ ४६ ॥
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह ।नष्टं च भारतं वंशं पुनरेव समुद्धर ॥ ४७ ॥
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ।स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥ ४८ ॥
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् ।भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ४९ ॥
« »