Click on words to see what they mean.

भीष्म उवाच ।जामदग्न्येन रामेण पितुर्वधममृष्यता ।क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ।शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥ १ ॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता ।निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥ २ ॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना ।त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ ३ ॥
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ।उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥ ४ ॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ।धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ।लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥ ५ ॥
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा ।ममता नाम तस्यासीद्भार्या परमसंमता ॥ ६ ॥
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥ ७ ॥
उवाच ममता तं तु देवरं वदतां वरम् ।अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥ ८ ॥
अयं च मे महाभाग कुक्षावेव बृहस्पते ।औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥ ९ ॥
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि ।तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि ॥ १० ॥
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः ।कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥ ११ ॥
संबभूव ततः कामी तया सार्धमकामया ।उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥ १२ ॥
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः ।अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥ १३ ॥
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः ।उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥ १४ ॥
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ १५ ॥
स वै दीर्घतमा नाम शापादृषिरजायत ।बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥ १६ ॥
स पुत्राञ्जनयामास गौतमादीन्महायशाः ।ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये ॥ १७ ॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥ १८ ॥
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते ।चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥ १९ ॥
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः ।जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥ २० ॥
तं तु राजा बलिर्नाम सर्वधर्मविशारदः ।अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥ २१ ॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ।ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥ २२ ॥
संतानार्थं महाभाग भार्यासु मम मानद ।पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥ २३ ॥
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः ।तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥ २४ ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह ।स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥ २५ ॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी ।जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥ २६ ॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः ।उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥ २७ ॥
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् ।शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥ २८ ॥
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव ।अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥ २९ ॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥ ३० ॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥ ३१ ॥
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत ।एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥ ३२ ॥
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ।एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ ३३ ॥
« »