Click on words to see what they mean.

सूत उवाच ।तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः ।रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥ १ ॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥ २ ॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥ ३ ॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।सम्यगाराधितास्तेन संजीवतु मम प्रिया ॥ ४ ॥
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः ।प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥ ५ ॥
देवदूत उवाच ।अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा ।न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥ ६ ॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥ ७ ॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥ ८ ॥
रुरुरुवाच ।क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर ।करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥ ९ ॥
देवदूत उवाच ।आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन ।एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥ १० ॥
रुरुरुवाच ।आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥ ११ ॥
सूत उवाच ।ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥ १२ ॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥ १३ ॥
धर्मराज उवाच ।प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥ १४ ॥
सूत उवाच ।एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥ १५ ॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥ १६ ॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ १७ ॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् ।व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ १८ ॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥ १९ ॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥ २० ॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदा ।अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ २१ ॥
नापराध्यामि ते किंचिदहमद्य तपोधन ।संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥ २२ ॥
« »