Click on words to see what they mean.

अष्टक उवाच ।कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् ।उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥ १ ॥
ययातिरुवाच ।अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥ २ ॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ॥ ३ ॥
यद्वै नृशंसं तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः ।अस्वोऽप्यनीशश्च तथैव राजंस्तदार्जवं स समाधिस्तदार्यम् ॥ ४ ॥
अष्टक उवाच ।केनासि दूतः प्रहितोऽद्य राजन्युवा स्रग्वी दर्शनीयः सुवर्चाः ।कुत आगतः कतरस्यां दिशि त्वमुताहोस्वित्पार्थिवं स्थानमस्ति ॥ ५ ॥
ययातिरुवाच ।इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः ।उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां ब्राह्मणा लोकपालाः ॥ ६ ॥
सतां सकाशे तु वृतः प्रपातस्ते संगता गुणवन्तश्च सर्वे ।शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितले नरेन्द्र ॥ ७ ॥
अष्टक उवाच ।पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र ।यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ८ ॥
ययातिरुवाच ।यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पर्वतैश्च ।तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥ ९ ॥
अष्टक उवाच ।तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रसाह ॥ १० ॥
ययातिरुवाच ।नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य ।यथा प्रदेयं सततं द्विजेभ्यस्तथाददं पूर्वमहं नरेन्द्र ॥ ११ ॥
नाब्राह्मणः कृपणो जातु जीवेद्या चापि स्याद्ब्राह्मणी वीरपत्नी ।सोऽहं यदैवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधु ॥ १२ ॥
प्रतर्दन उवाच ।पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १३ ॥
ययातिरुवाच ।सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्त सप्ताप्यहानि ।मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति ॥ १४ ॥
प्रतर्दन उवाच ।तांस्ते ददामि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥ १५ ॥
ययातिरुवाच ।न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् ।दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं न हि जातु राजा ॥ १६ ॥
धर्म्यं मार्गं चेतयानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः ।न मद्विधो धर्मबुद्धिः प्रजानन्कुर्यादेवं कृपणं मां यथात्थ ॥ १७ ॥
कुर्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधु ।ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमनाब्रवीत्तम् ॥ १८ ॥
« »