Click on words to see what they mean.

अष्टक उवाच ।यदावसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।किं कारणं कार्तयुगप्रधान हित्वा तत्त्वं वसुधामन्वपद्यः ॥ १ ॥
ययातिरुवाच ।ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि ।तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसंघाः ॥ २ ॥
अष्टक उवाच ।कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् ।किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ ३ ॥
ययातिरुवाच ।इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे ।ते कङ्कगोमायुबलाशनार्थं क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥ ४ ॥
तस्मादेतद्वर्जनीयं नरेण दुष्टं लोके गर्हणीयं च कर्म ।आख्यातं ते पार्थिव सर्वमेतद्भूयश्चेदानीं वद किं ते वदामि ॥ ५ ॥
अष्टक उवाच ।यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः ।कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥ ६ ॥
ययातिरुवाच ।ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसंचरन्ति ।इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥ ७ ॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि ।तान्वै तुदन्ति प्रपततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ ८ ॥
अष्टक उवाच ।यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥ ९ ॥
ययातिरुवाच ।अस्रं रेतः पुष्पफलानुपृक्तमन्वेति तद्वै पुरुषेण सृष्टम् ।स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥ १० ॥
वनस्पतींश्चौषधीश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् ।चतुष्पदं द्विपदं चापि सर्वमेवंभूता गर्भभूता भवन्ति ॥ ११ ॥
अष्टक उवाच ।अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति ।आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात्प्रब्रवीमि ॥ १२ ॥
शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् ।एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥ १३ ॥
ययातिरुवाच ।वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुपृक्तम् ।स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥ १४ ॥
स जायमानो विगृहीतगात्रः षड्ज्ञाननिष्ठायतनो मनुष्यः ।स श्रोत्राभ्यां वेदयतीह शब्दं सर्वं रूपं पश्यति चक्षुषा च ॥ १५ ॥
घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा वेद भावम् ।इत्यष्टकेहोपचितिं च विद्धि महात्मनः प्राणभृतः शरीरे ॥ १६ ॥
अष्टक उवाच ।यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निघृष्यते वा ।अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥ १७ ॥
ययातिरुवाच ।हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं च ।अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥ १८ ॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति ।कीटाः पतंगाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥ १९ ॥
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति ।आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥ २० ॥
अष्टक उवाच ।किं स्वित्कृत्वा लभते तात लोकान्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा ।तन्मे पृष्टः शंस सर्वं यथावच्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥ २१ ॥
ययातिरुवाच ।तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ २२ ॥
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥ २३ ॥
चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ।मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ २४ ॥
न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् ।सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥ २५ ॥
इति दद्यादिति यजेदित्यधीयीत मे व्रतम् ।इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥ २६ ॥
येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमानभक्तम् ।तन्निःश्रेयस्तैजसं रूपमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ २७ ॥
« »