Click on words to see what they mean.

ययातिरुवाच ।अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् ।प्रभ्रंशितः सुरसिद्धर्षिलोकात्परिच्युतः प्रपताम्यल्पपुण्यः ॥ १ ॥
अहं हि पूर्वो वयसा भवद्भ्यस्तेनाभिवादं भवतां न प्रयुञ्जे ।यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥ २ ॥
अष्टक उवाच ।अवादीश्चेद्वयसा यः स वृद्ध इति राजन्नाभ्यवदः कथंचित् ।यो वै विद्वान्वयसा सन्स्म वृद्धः स एव पूज्यो भवति द्विजानाम् ॥ ३ ॥
ययातिरुवाच ।प्रतिकूलं कर्मणां पापमाहुस्तद्वर्ततेऽप्रवणे पापलोक्यम् ।सन्तोऽसतां नानुवर्तन्ति चैतद्यथा आत्मैषामनुकूलवादी ॥ ४ ॥
अभूद्धनं मे विपुलं महद्वै विचेष्टमानो नाधिगन्ता तदस्मि ।एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति जीवन् ॥ ५ ॥
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः ।तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥ ६ ॥
सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या ।तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ७ ॥
दुःखे न तप्येन्न सुखेन हृष्येत्समेन वर्तेत सदैव धीरः ।दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ८ ॥
भये न मुह्याम्यष्टकाहं कदाचित्संतापो मे मानसो नास्ति कश्चित् ।धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥ ९ ॥
संस्वेदजा अण्डजा उद्भिदाश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः ।तथाश्मानस्तृणकाष्ठं च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥ १० ॥
अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम् ।किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥ ११ ॥
अष्टक उवाच ।ये ये लोकाः पार्थिवेन्द्र प्रधानास्त्वया भुक्ता यं च कालं यथा च ।तन्मे राजन्ब्रूहि सर्वं यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥ १२ ॥
ययातिरुवाच ।राजाहमासमिह सार्वभौमस्ततो लोकान्महतो अजयं वै ।तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १३ ॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् ।अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १४ ॥
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् ।तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥ १५ ॥
देवस्य देवस्य निवेशने च विजित्य लोकानवसं यथेष्टम् ।संपूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम् ॥ १६ ॥
तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।सहाप्सरोभिर्विहरन्पुण्यगन्धान्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥ १७ ॥
तत्रस्थं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् ।दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ १८ ॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः ।वाचोऽश्रौषं चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मानवेन्द्र ॥ १९ ॥
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः ।तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु ॥ २० ॥
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चैनां त्वरितमुपागतोऽस्मि ।हविर्गन्धं देशिकं यज्ञभूमेर्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ २१ ॥
« »