Click on words to see what they mean.

वैशंपायन उवाच ।जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह ।पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ १ ॥
जरा वली च मां तात पलितानि च पर्यगुः ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २ ॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ ३ ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ४ ॥
यदुरुवाच ।सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः ।वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥ ५ ॥
अशक्तः कार्यकरणे परिभूतः स यौवनैः ।सहोपजीविभिश्चैव तां जरां नाभिकामये ॥ ६ ॥
ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥ ७ ॥
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ ८ ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ९ ॥
तुर्वसुरुवाच ।न कामये जरां तात कामभोगप्रणाशिनीम् ।बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥ १० ॥
ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ ११ ॥
संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥ १२ ॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च ।पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥ १३ ॥
वैशंपायन उवाच ।एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ १४ ॥
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥ १५ ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥ १६ ॥
द्रुह्युरुवाच ।न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥ १७ ॥
ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥ १८ ॥
उडुपप्लवसंतारो यत्र नित्यं भविष्यति ।अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥ १९ ॥
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ २० ॥
अनुरुवाच ।जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा ।न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ २१ ॥
ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥ २२ ॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव ।अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥ २३ ॥
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि ।जरा वली च मे तात पलितानि च पर्यगुः ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २४ ॥
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।कंचित्कालं चरेयं वै विषयान्वयसा तव ॥ २५ ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ २६ ॥
वैशंपायन उवाच ।एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ।यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥ २७ ॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह ।गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ २८ ॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥ २९ ॥
ययातिरुवाच ।पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ ३० ॥
« »