Click on words to see what they mean.

वैशंपायन उवाच ।श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता ।चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥ १ ॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् ।किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥ २ ॥
शर्मिष्ठोवाच ।ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।स मया वरदः कामं याचितो धर्मसंहितम् ॥ ३ ॥
नाहमन्यायतः काममाचरामि शुचिस्मिते ।तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ ४ ॥
देवयान्युवाच ।शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः ।गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥ ५ ॥
शर्मिष्ठोवाच ।ओजसा तेजसा चैव दीप्यमानं रविं यथा ।तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ ६ ॥
देवयान्युवाच ।यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ ७ ॥
वैशंपायन उवाच ।अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः ।जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥ ८ ॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ ९ ॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी ।द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ १० ॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता ।ययातिसहिता राजन्निर्जगाम महावनम् ॥ ११ ॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः ।क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥ १२ ॥
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः ।वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ १३ ॥
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ।किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥ १४ ॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ।शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥ १५ ॥
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः ।नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ।रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥ १६ ॥
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ।बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥ १७ ॥
मदधीना सती कस्मादकार्षीर्विप्रियं मम ।तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥ १८ ॥
शर्मिष्ठोवाच ।यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ १९ ॥
यदा त्वया वृतो राजा वृत एव तदा मया ।सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ २० ॥
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी ।त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥ २१ ॥
वैशंपायन उवाच ।श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥ २२ ॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् ।त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ २३ ॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः ।न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥ २४ ॥
अविब्रुवन्ती किंचित्तु राजानं चारुलोचना ।अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ २५ ॥
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता ।अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ २६ ॥
देवयान्युवाच ।अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥ २७ ॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना ।दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ २८ ॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह ।अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ २९ ॥
शुक्र उवाच ।धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् ।तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ ३० ॥
ययातिरुवाच ।ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥ ३१ ॥
ऋतुं वै याचमानाया न ददाति पुमान्वृतः ।भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥ ३२ ॥
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः ।नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥ ३३ ॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह ।अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥ ३४ ॥
शुक्र उवाच ।नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव ।मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ ३५ ॥
वैशंपायन उवाच ।क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ ३६ ॥
ययातिरुवाच ।अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह ।प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥ ३७ ॥
शुक्र उवाच ।नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप ।जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि ॥ ३८ ॥
ययातिरुवाच ।राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा ।यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥ ३९ ॥
शुक्र उवाच ।संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज ।मामनुध्याय भावेन न च पापमवाप्स्यसि ॥ ४० ॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति ।आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ४१ ॥
« »