Click on words to see what they mean.

जनमेजय उवाच ।ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः ।कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ १ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम ।आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥ २ ॥
वैशंपायन उवाच ।ययातिरासीद्राजर्षिर्देवराजसमद्युतिः ।तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ ३ ॥
तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय ।देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ ४ ॥
सुराणामसुराणां च समजायत वै मिथः ।ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥ ५ ॥
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् ।पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ।ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥ ६ ॥
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् ।तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ।ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥ ७ ॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि ।न तान्संजीवयामास बृहस्पतिरुदारधीः ॥ ८ ॥
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् ।संजीवनीं ततो देवा विषादमगमन्परम् ॥ ९ ॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ १० ॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् ।यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ।शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥ ११ ॥
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः ।रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥ १२ ॥
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ।देवयानीं च दयितां सुतां तस्य महात्मनः ॥ १३ ॥
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ।शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ १४ ॥
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥ १५ ॥
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः ।असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥ १६ ॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥ १७ ॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ ।अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥ १८ ॥
शुक्र उवाच ।कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ १९ ॥
वैशंपायन उवाच ।कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ २० ॥
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत ।आराधयन्नुपाध्यायं देवयानीं च भारत ॥ २१ ॥
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे ।गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ २२ ॥
संशीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् ।पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥ २३ ॥
देवयान्यपि तं विप्रं नियमव्रतचारिणम् ।अनुगायमाना ललना रहः पर्यचरत्तदा ॥ २४ ॥
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् ।तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥ २५ ॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ।हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥ २६ ॥
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ।ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ।उवाच वचनं काले देवयान्यथ भारत ॥ २७ ॥
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ २८ ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ २९ ॥
शुक्र उवाच ।अयमेहीति शब्देन मृतं संजीवयाम्यहम् ॥ ३० ॥
वैशंपायन उवाच ।ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत् ।आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ।हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥ ३१ ॥
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया ।वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥ ३२ ॥
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः ।प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥ ३३ ॥
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् ।पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥ ३४ ॥
शुक्र उवाच ।बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥ ३५ ॥
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचेत् ।सुराश्च विश्वे च जगच्च सर्वमुपस्थितां वैकृतिमानमन्ति ॥ ३६ ॥
देवयान्युवाच ।यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोधनः ।ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् ॥ ३७ ॥
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः ।कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥ ३८ ॥
शुक्र उवाच ।असंशयं मामसुरा द्विषन्ति ये मे शिष्यं नागसं सूदयन्ति ।अब्राह्मणं कर्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि ।अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ ३९ ॥
वैशंपायन उवाच ।संचोदितो देवयान्या महर्षिः पुनराह्वयत् ।संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥ ४० ॥
गुरोर्भीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार ।तमब्रवीत्केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र ॥ ४१ ॥
कच उवाच ।भवत्प्रसादान्न जहाति मां स्मृतिः स्मरे च सर्वं यच्च यथा च वृत्तम् ।न त्वेवं स्यात्तपसो व्ययो मे ततः क्लेशं घोरमिमं सहामि ॥ ४२ ॥
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।ब्राह्मीं मायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्तेत् ॥ ४३ ॥
शुक्र उवाच ।किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य ।नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि ॥ ४४ ॥
देवयान्युवाच ।द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥ ४५ ॥
शुक्र उवाच ।संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी ।विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥ ४६ ॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् ।ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ ४७ ॥
पुत्रो भूत्वा भावय भावितो मामस्माद्देहादुपनिष्क्रम्य तात ।समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ ४८ ॥
वैशंपायन उवाच ।गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः ।कचोऽभिरूपो दक्षिणं ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥ ४९ ॥
दृष्ट्वा च तं पतितं ब्रह्मराशिमुत्थापयामास मृतं कचोऽपि ।विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥ ५० ॥
ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् ।ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥ ५१ ॥
वैशंपायन उवाच ।सुरापानाद्वञ्चनां प्रापयित्वा संज्ञानाशं चैव तथातिघोरम् ।दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन ॥ ५२ ॥
समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः ।काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः ॥ ५३ ॥
यो ब्राह्मणोऽद्य प्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः ।अपेतधर्मो ब्रह्महा चैव स स्यादस्मिँल्लोके गर्हितः स्यात्परे च ॥ ५४ ॥
मया चेमां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके ।सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे ॥ ५५ ॥
इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः ।तान्दानवान्दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच ॥ ५६ ॥
आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे ।संजीवनीं प्राप्य विद्यां महार्थां तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥ ५७ ॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ ५८ ॥
« »