Click on words to see what they mean.

वैशंपायन उवाच ।प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥ १ ॥
यादवानामिमं वंशं पौरवाणां च सर्वशः ।तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ।धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥ २ ॥
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ।दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ।मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥ ३ ॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥ ४ ॥
वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः ।आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥ ५ ॥
सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः ।मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् ॥ ६ ॥
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे ।प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥ ७ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ८ ॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ।इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ॥ ९ ॥
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ।मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥ १० ॥
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ।मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ।ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥ ११ ॥
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् ।ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥ १२ ॥
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ।करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥ १३ ॥
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् ।नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥ १४ ॥
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ।अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥ १५ ॥
पुरूरवास्ततो विद्वानिलायां समपद्यत ।सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥ १६ ॥
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ।अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥ १७ ॥
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ।जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥ १८ ॥
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ।अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥ १९ ॥
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत ।लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः ॥ २० ॥
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् ।आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥ २१ ॥
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः ।दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥ २२ ॥
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् ।स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥ २३ ॥
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ।राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥ २४ ॥
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ।नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥ २५ ॥
स हत्वा दस्युसंघातानृषीन्करमदापयत् ।पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥ २६ ॥
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ।तेजसा तपसा चैव विक्रमेणौजसा तथा ॥ २७ ॥
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् ।नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥ २८ ॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।स पालयामास महीमीजे च विविधैः सवैः ॥ २९ ॥
अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥ ३० ॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ ३१ ॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥ ३२ ॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् ।जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥ ३३ ॥
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥ ३४ ॥
यौवनेन चरन्कामान्युवा युवतिभिः सह ।विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥ ३५ ॥
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् ।किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥ ३६ ॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् ।यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ ३७ ॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥ ३८ ॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥ ३९ ॥
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥ ४० ॥
राजंश्चराभिनवया तन्वा यौवनगोचरः ।अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥ ४१ ॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ।संचारयामास जरां तदा पुत्रे महात्मनि ॥ ४२ ॥
पौरवेणाथ वयसा राजा यौवनमास्थितः ।यायातेनापि वयसा राज्यं पूरुरकारयत् ॥ ४३ ॥
ततो वर्षसहस्रान्ते ययातिरपराजितः ।अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥ ४४ ॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥ ४५ ॥
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च ।कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥ ४६ ॥
« »