Click on words to see what they mean.

वैशंपायन उवाच ।प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला ।गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥ १ ॥
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् ।रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥ २ ॥
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः ।तस्याथ कारयामास वर्धमानस्य धीमतः ॥ ३ ॥
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा ।चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ।कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥ ४ ॥
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति ।व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥ ५ ॥
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः ।आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥ ६ ॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥ ७ ॥
स सर्वदमनो नाम कुमारः समपद्यत ।विक्रमेणौजसा चैव बलेन च समन्वितः ॥ ८ ॥
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् ।समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥ ९ ॥
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह ।शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ।भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥ १० ॥
नारीणां चिरवासो हि बान्धवेषु न रोचते ।कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥ ११ ॥
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः ।शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥ १२ ॥
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् ।आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥ १३ ॥
अभिसृत्य च राजानं विदिता सा प्रवेशिता ।सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥ १४ ॥
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ।अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥ १५ ॥
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः ।यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥ १६ ॥
यथा समागमे पूर्वं कृतः स समयस्त्वया ।तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥ १७ ॥
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि ।अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥ १८ ॥
धर्मकामार्थसंबन्धं न स्मरामि त्वया सह ।गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ १९ ॥
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी ।विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥ २० ॥
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा ।कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ २१ ॥
आकारं गूहमाना च मन्युनाभिसमीरिता ।तपसा संभृतं तेजो धारयामास वै तदा ॥ २२ ॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥ २३ ॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥ २४ ॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च ।कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥ २५ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ २६ ॥
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥ २७ ॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥ २८ ॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ २९ ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ३० ॥
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः ।तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥ ३१ ॥
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते ।देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥ ३२ ॥
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् ।अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ ३३ ॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि ।न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥ ३४ ॥
यदि मे याचमानाया वचनं न करिष्यसि ।दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥ ३५ ॥
भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः ।जायाया इति जायात्वं पुराणाः कवयो विदुः ॥ ३६ ॥
यदागमवतः पुंसस्तदपत्यं प्रजायते ।तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥ ३७ ॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ३८ ॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ ३९ ॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥ ४० ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ४१ ॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ ४२ ॥
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै ।यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥ ४३ ॥
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् ।भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ ४४ ॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥ ४५ ॥
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते ।यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥ ४६ ॥
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः ।तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥ ४७ ॥
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् ।ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥ ४८ ॥
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः ।ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥ ४९ ॥
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः ।रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥ ५० ॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् ।ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥ ५१ ॥
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः ।पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥ ५२ ॥
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् ।प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥ ५३ ॥
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः ।न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥ ५४ ॥
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः ।शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥ ५५ ॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ ५६ ॥
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः ।पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥ ५७ ॥
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम ।इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥ ५८ ॥
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव ।इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥ ५९ ॥
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ।मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥ ६० ॥
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः ।जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ ६१ ॥
अङ्गादङ्गात्संभवसि हृदयादभिजायसे ।आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ ६२ ॥
पोषो हि त्वदधीनो मे संतानमपि चाक्षयम् ।तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥ ६३ ॥
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः ।सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥ ६४ ॥
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते ।तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥ ६५ ॥
मृगापकृष्टेन हि ते मृगयां परिधावता ।अहमासादिता राजन्कुमारी पितुराश्रमे ॥ ६६ ॥
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका ।विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ ६७ ॥
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः ।दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥ ६८ ॥
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः ।अवकीर्य च मां याता परात्मजमिवासती ॥ ६९ ॥
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि ।यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया ॥ ७० ॥
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् ।इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना ॥ ७१ ॥
दुःषन्त उवाच ।न पुत्रमभिजानामि त्वयि जातं शकुन्तले ।असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥ ७२ ॥
मेनका निरनुक्रोशा बन्धकी जननी तव ।यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥ ७३ ॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥ ७४ ॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता ।तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥ ७५ ॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ ७६ ॥
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका ।क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥ ७७ ॥
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् ।कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥ ७८ ॥
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे ।यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥ ७९ ॥
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि ।नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥ ८० ॥
« »