Click on words to see what they mean.

वैशंपायन उवाच ।ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥ १ ॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् ।उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥ २ ॥
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥ ३ ॥
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा ।स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥ ४ ॥
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ।पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥ ५ ॥
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा ।उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥ ६ ॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ।दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥ ७ ॥
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ।क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥ ८ ॥
शकुन्तलोवाच ।गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥ ९ ॥
वैशंपायन उवाच ।अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः ।तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥ १० ॥
विभ्राजमानां वपुषा तपसा च दमेन च ।रूपयौवनसंपन्नामित्युवाच महीपतिः ॥ ११ ॥
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् ।एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥ १२ ॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥ १३ ॥
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे ।उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥ १४ ॥
कण्वष्याहं भगवतो दुःषन्त दुहिता मता ।तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥ १५ ॥
दुःषन्त उवाच ।ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः ।चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥ १६ ॥
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी ।संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥ १७ ॥
शकुन्तलोवाच ।यथायमागमो मह्यं यथा चेदमभूत्पुरा ।शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥ १८ ॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥ १९ ॥
तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ २० ॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥ २१ ॥
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे ।श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥ २२ ॥
असावादित्यसंकाशो विश्वामित्रो महातपाः ।तप्यमानस्तपो घोरं मम कम्पयते मनः ॥ २३ ॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ २४ ॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥ २५ ॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः ।लोभयित्वा वरारोहे तपसः संनिवर्तय ॥ २६ ॥
मेनकोवाच ।महातेजाः स भगवान्सदैव च महातपाः ।कोपनश्च तथा ह्येनं जानाति भगवानपि ॥ २७ ॥
तेजसस्तपसश्चैव कोपस्य च महात्मनः ।त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥ २८ ॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥ २९ ॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥ ३० ॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥ ३१ ॥
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् ।मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ ३२ ॥
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् ।त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥ ३३ ॥
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा ।प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥ ३४ ॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ।यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥ ३५ ॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥ ३६ ॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥ ३७ ॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥ ३८ ॥
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे ।एतेऽपि यस्योद्विजन्ते प्रभावात्कस्मात्तस्मान्मादृशी नोद्विजेत ॥ ३९ ॥
त्वयैवमुक्ता च कथं समीपमृषेर्न गच्छेयमहं सुरेन्द्र ।रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम् ॥ ४० ॥
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव ।भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तव देवप्रसादात् ॥ ४१ ॥
वनाच्च वायुः सुरभिः प्रवायेत्तस्मिन्काले तमृषिं लोभयन्त्याः ।तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साश्रमं कौशिकस्य ॥ ४२ ॥
« »