Click on words to see what they mean.

वैशंपायन उवाच ।ततो मृगसहस्राणि हत्वा विपुलवाहनः ।राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥ १ ॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः ।स वनस्यान्तमासाद्य महदीरिणमासदत् ॥ २ ॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् ।मनःप्रह्लादजननं दृष्टिकान्तमतीव च ।शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥ ३ ॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ।विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥ ४ ॥
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् ।षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥ ५ ॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी ।षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥ ६ ॥
विहगैर्नादितं पुष्पैरलंकृतमतीव च ।सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ।मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥ ७ ॥
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः ।पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥ ८ ॥
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः ।विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥ ९ ॥
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ।रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥ १० ॥
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ।लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ।संपश्यन्स महातेजा बभूव मुदितस्तदा ॥ ११ ॥
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः ।अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥ १२ ॥
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः ।परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥ १३ ॥
एवंगुणसमायुक्तं ददर्श स वनं नृपः ।नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥ १४ ॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहंगमम् ।आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥ १५ ॥
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् ।यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥ १६ ॥
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ।महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥ १७ ॥
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् ।नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ।तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥ १८ ॥
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत ।देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥ १९ ॥
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः ।सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥ २० ॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् ।सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥ २१ ॥
पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम् ।मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥ २२ ॥
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा ।चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥ २३ ॥
अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया ।नरनारायणस्थानं गङ्गयेवोपशोभितम् ।मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् ॥ २४ ॥
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः ।अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा ।महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥ २५ ॥
रथिनीमश्वसंबाधां पदातिगणसंकुलाम् ।अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥ २६ ॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् ।काश्यपं स्थीयतामत्र यावदागमनं मम ॥ २७ ॥
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ।क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥ २८ ॥
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः ।पुरोहितसहायश्च जगामाश्रममुत्तमम् ।दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥ २९ ॥
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च ।षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् ॥ ३० ॥
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः ।शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ ३१ ॥
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि ।अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ ३२ ॥
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः ।संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥ ३३ ॥
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः ।नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥ ३४ ॥
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः ।न्यायतत्त्वार्थविज्ञानसंपन्नैर्वेदपारगैः ॥ ३५ ॥
नानावाक्यसमाहारसमवायविशारदैः ।विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥ ३६ ॥
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ।लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥ ३७ ॥
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् ।जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥ ३८ ॥
आसनानि विचित्राणि पुष्पवन्ति महीपतिः ।प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥ ३९ ॥
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः ।ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥ ४० ॥
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् ।नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥ ४१ ॥
स काश्यपस्यायतनं महाव्रतैर्वृतं समन्तादृषिभिस्तपोधनैः ।विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शिवम् ॥ ४२ ॥
« »