Click on words to see what they mean.

वैशंपायन उवाच ।अथ नारायणेनेन्द्रश्चकार सह संविदम् ।अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥ १ ॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः ।निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥ २ ॥
तेऽमरारिविनाशाय सर्वलोकहिताय च ।अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥ ३ ॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च ।जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ ४ ॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा ।पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥ ५ ॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा ।न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥ ६ ॥
जनमेजय उवाच ।देवदानवसंघानां गन्धर्वाप्सरसां तथा ।मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥ ७ ॥
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः ।प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥ ८ ॥
वैशंपायन उवाच ।हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ।सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥ ९ ॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १० ॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ ११ ॥
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः ।क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥ १२ ॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत ।एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् ॥ १३ ॥
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः ।ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥ १४ ॥
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च ।भगो विवस्वान्पूषा च सविता दशमस्तथा ॥ १५ ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ।जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥ १६ ॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः ।नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥ १७ ॥
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् ।अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥ १८ ॥
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत ।विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥ १९ ॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् ।बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥ २० ॥
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत ।तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥ २१ ॥
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः ।असिलोमा च केशी च दुर्जयश्चैव दानवः ॥ २२ ॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥ २३ ॥
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा ।अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥ २४ ॥
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ ।निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥ २५ ॥
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा ।इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ।अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥ २६ ॥
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः ।दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥ २७ ॥
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि ।वातापिः शत्रुतपनः शठश्चैव महासुरः ॥ २८ ॥
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः ।असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥ २९ ॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् ।सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥ ३० ॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् ।गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥ ३१ ॥
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः ।विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥ ३२ ॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः ।भुवि ख्याता महावीर्या दानवेषु परंतपाः ॥ ३३ ॥
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः ।क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥ ३४ ॥
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् ।ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥ ३५ ॥
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ ।तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः ॥ ३६ ॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् ।असुराणां सुराणां च पुराणे संश्रुतो मया ॥ ३७ ॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः ।प्रसंख्यातुं महीपाल गुणभूतमनन्तकम् ॥ ३८ ॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥ ३९ ॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः ।कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥ ४० ॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ ४१ ॥
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः ।भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥ ४२ ॥
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः ।कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ।इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ४३ ॥
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत ।अनवद्यामनुवशामनूनामरुणां प्रियाम् ।अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥ ४४ ॥
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः ।ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥ ४५ ॥
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥ ४६ ॥
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ।प्रावासूत महाभागा देवी देवर्षितः पुरा ॥ ४७ ॥
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा ।अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥ ४८ ॥
असिता च सुबाहुश्च सुव्रता सुभुजा तथा ।सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ।तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥ ४९ ॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा ।अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥ ५० ॥
इति ते सर्वभूतानां संभवः कथितो मया ।यथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा ॥ ५१ ॥
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा ।गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥ ५२ ॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः ।श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥ ५३ ॥
इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदेवसंनिधौ ।अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ ५४ ॥
« »