Click on words to see what they mean.

वैशंपायन उवाच ।राजोपरिचरो नाम धर्मनित्यो महीपतिः ।बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥ १ ॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥ २ ॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् ।देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥ ३ ॥
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै ।तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥ ४ ॥
इन्द्र उवाच ।न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥ ५ ॥
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः ।धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥ ६ ॥
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः ।ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ ७ ॥
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् ।स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ ८ ॥
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः ।वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ ९ ॥
धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥ १० ॥
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः ।युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च ॥ ११ ॥
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् ॥ १२ ॥
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् ।आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ १३ ॥
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥ १४ ॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम् ॥ १५ ॥
लक्षणं चैतदेवेह भविता ते नराधिप ।इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ १६ ॥
वैशंपायन उवाच ।यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥ १७ ॥
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।प्रवेशं कारयामास गते संवत्सरे तदा ॥ १८ ॥
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः ।प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥ १९ ॥
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः ।अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ।माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥ २० ॥
भगवान्पूज्यते चात्र हास्यरूपेण शंकरः ।स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥ २१ ॥
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् ।वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥ २२ ॥
ये पूजयिष्यन्ति नरा राजानश्च महं मम ।कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥ २३ ॥
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति ।तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥ २४ ॥
एवं महात्मना तेन महेन्द्रेण नराधिप ।वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ॥ २५ ॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः ।भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ।वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥ २६ ॥
संपूजितो मघवता वसुश्चेदिपतिस्तदा ।पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ।इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥ २७ ॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥ २८ ॥
महारथो मगधराड्विश्रुतो यो बृहद्रथः ।प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ २९ ॥
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ।वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥ ३० ॥
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ।उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ ३१ ॥
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः ।अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ ३२ ॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।निश्चक्राम नदी तेन प्रहारविवरेण सा ॥ ३३ ॥
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् ।तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ ३४ ॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ।चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥ ३५ ॥
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् ।ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥ ३६ ॥
तदहः पितरश्चैनमूचुर्जहि मृगानिति ।तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥ ३७ ॥
स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः ।चचार मृगयां कामी गिरिकामेव संस्मरन् ।अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् ॥ ३८ ॥
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने ।स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥ ३९ ॥
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत ।ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ ४० ॥
संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः ।अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ ४१ ॥
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ।सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥ ४२ ॥
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ।गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥ ४३ ॥
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ।जवं परममास्थाय प्रदुद्राव विहंगमः ॥ ४४ ॥
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः ।अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥ ४५ ॥
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः ।युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥ ४६ ॥
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः ।मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ ४७ ॥
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ।जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥ ४८ ॥
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः ।मासे च दशमे प्राप्ते तदा भरतसत्तम ।उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥ ४९ ॥
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् ।काये मत्स्या इमौ राजन्संभूतौ मानुषाविति ॥ ५० ॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः ॥ ५१ ॥
साप्सरा मुक्तशापा च क्षणेन समपद्यत ।पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ।मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ ५२ ॥
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना ।संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ ५३ ॥
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ।रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥ ५४ ॥
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ।आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता ॥ ५५ ॥
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले ।तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥ ५६ ॥
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ।दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ।विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः ॥ ५७ ॥
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् ।आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥ ५८ ॥
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ।येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥ ५९ ॥
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ।विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥ ६० ॥
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ।त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥ ६१ ॥
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम ।गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ।एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ ६२ ॥
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः ।उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ ६३ ॥
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि ।वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ ६४ ॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥ ६५ ॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥ ६६ ॥
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि ।तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ ६७ ॥
ततो योजनगन्धेति तस्या नाम परिश्रुतम् ।पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥ ६८ ॥
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ।पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ ६९ ॥
स मातरमुपस्थाय तपस्येव मनो दधे ।स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ ७० ॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥ ७१ ॥
पादापसारिणं धर्मं विद्वान्स तु युगे युगे ।आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥ ७२ ॥
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया ।विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥ ७३ ॥
वेदानध्यापयामास महाभारतपञ्चमान् ।सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ ७४ ॥
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ।संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ ७५ ॥
तथा भीष्मः शांतनवो गङ्गायाममितद्युतिः ।वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥ ७६ ॥
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ।अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥ ७७ ॥
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ।इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥ ७८ ॥
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ।तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥ ७९ ॥
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ।तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥ ८० ॥
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ।विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥ ८१ ॥
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ।सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ।सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ ८२ ॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ ८३ ॥
अनादिनिधनो देवः स कर्ता जगतः प्रभुः ।अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥ ८४ ॥
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् ।पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥ ८५ ॥
अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।धातारमजरं नित्यं तमाहुः परमव्ययम् ॥ ८६ ॥
पुरुषः स विभुः कर्ता सर्वभूतपितामहः ।धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥ ८७ ॥
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ ।सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ ८८ ॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ ८९ ॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ।अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥ ९० ॥
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ।वैताने कर्मणि तते पावकात्समजायत ।वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥ ९१ ॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥ ९२ ॥
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ ९३ ॥
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥ ९४ ॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ ९५ ॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ ९६ ॥
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः ।इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ ९७ ॥
जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ ।नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ ९८ ॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥ ९९ ॥
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ १०० ॥
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे ।कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः ॥ १०१ ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ १०२ ॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ १०३ ॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता ।यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥ १०४ ॥
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ ।राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ १०५ ॥
तेषामपरिमेयानि नामधेयानि सर्वशः ।न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि ।एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ १०६ ॥
« »