Click on words to see what they mean.

जनमेजय उवाच ।बालो वाक्यं स्थविर इव प्रभाषते नायं बालः स्थविरोऽयं मतो मे ।इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्रा वितरध्वं समेताः ॥ १ ॥
सदस्या ऊचुः ।बालोऽपि विप्रो मान्य एवेह राज्ञां यश्चाविद्वान्यश्च विद्वान्यथावत् ।सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् ॥ २ ॥
सूत उवाच ।व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच ।होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् ॥ ३ ॥
जनमेजय उवाच ।यथा चेदं कर्म समाप्यते मे यथा च नस्तक्षक एति शीघ्रम् ।तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः ॥ ४ ॥
ऋत्विज ऊचुः ।यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः ।इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥ ५ ॥
सूत उवाच ।यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् ।स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥ ६ ॥
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति ॥ ७ ॥
एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले ।होता च यत्तः स जुहाव मन्त्रैरथो इन्द्रः स्वयमेवाजगाम ॥ ८ ॥
विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः ।बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च ॥ ९ ॥
तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ।ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥ १० ॥
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ ११ ॥
ऋत्विज ऊचुः ।अयमायाति वै तूर्णं तक्षकस्ते वशं नृप ।श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥ १२ ॥
नूनं मुक्तो वज्रभृता स नागो भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः ।घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥ १३ ॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥ १४ ॥
जनमेजय उवाच ।बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् ।वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् ॥ १५ ॥
सूत उवाच ।पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥ १६ ॥
वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥ १७ ॥
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा ।नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥ १८ ॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥ १९ ॥
आस्तीक उवाच ।सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥ २० ॥
सूत उवाच ।आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥ २१ ॥
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम ।अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥ २२ ॥
ततो वेदविदस्तत्र सदस्याः सर्व एव तम् ।राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ २३ ॥
« »