Click on words to see what they mean.

आस्तीक उवाच ।सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १ ॥
शक्रस्य यज्ञः शतसंख्य उक्तस्तथापरस्तुल्यसंख्यः शतं वै ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ २ ॥
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ३ ॥
गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ४ ॥
नृगस्य यज्ञस्त्वजमीढस्य चासीद्यथा यज्ञो दाशरथेश्च राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ५ ॥
यज्ञः श्रुतो नो दिवि देवसूनोर्युधिष्ठिरस्याजमीढस्य राज्ञः ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ६ ॥
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र ।तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ ७ ॥
इमे हि ते सूर्यहुताशवर्चसः समासते वृत्रहणः क्रतुं यथा ।नैषां ज्ञानं विद्यते ज्ञातुमद्य दत्तं येभ्यो न प्रणश्येत्कथंचित् ॥ ८ ॥
ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे ।एतस्य शिष्या हि क्षितिं चरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥ ९ ॥
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता विश्वभुक्कृष्णवर्त्मा ।प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः ॥ १० ॥
नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् ।धृत्या च ते प्रीतमनाः सदाहं त्वं वा राजा धर्मराजो यमो वा ॥ ११ ॥
शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् ।मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥ १२ ॥
खट्वाङ्गनाभागदिलीपकल्पो ययातिमान्धातृसमप्रभावः ।आदित्यतेजःप्रतिमानतेजा भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥ १३ ॥
वाल्मीकिवत्ते निभृतं सुधैर्यं वसिष्ठवत्ते नियतश्च कोपः ।प्रभुत्वमिन्द्रेण समं मतं मे द्युतिश्च नारायणवद्विभाति ॥ १४ ॥
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः ।श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम् ॥ १५ ॥
दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च ।और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥ १६ ॥
सूत उवाच ।एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः ।तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ ॥ १७ ॥
« »