Click on words to see what they mean.

शौनक उवाच ।यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥ १ ॥
सूत उवाच ।शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा ।आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥ २ ॥
जनमेजय उवाच ।जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम ।आसीद्यथा च निधनं गतः काले महायशाः ॥ ३ ॥
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥ ४ ॥
सूत उवाच ।मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥ ५ ॥
धर्मात्मा च महात्मा च प्रजापालः पिता तव ।आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥ ६ ॥
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत ।धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥ ७ ॥
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन ।समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥ ८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ।स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥ ९ ॥
विधवानाथकृपणान्विकलांश्च बभार सः ।सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥ १० ॥
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ।धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥ ११ ॥
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ।लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥ १२ ॥
परिक्षीणेषु कुरुषु उत्तरायामजायत ।परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥ १३ ॥
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः ।जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥ १४ ॥
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः ।प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ।ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥ १५ ॥
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् ।इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ।बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥ १६ ॥
जनमेजय उवाच ।नास्मिन्कुले जातु बभूव राजा यो न प्रजानां हितकृत्प्रियश्च ।विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम् ॥ १७ ॥
कथं निधनमापन्नः पिता मम तथाविधः ।आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥ १८ ॥
सूत उवाच ।एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥ १९ ॥
बभूव मृगयाशीलस्तव राजन्पिता सदा ।यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ।अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥ २० ॥
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा ।विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥ २१ ॥
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।न चाससाद गहने मृगं नष्टं पिता तव ॥ २२ ॥
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः ।क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥ २३ ॥
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् ।न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥ २४ ॥
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् ।मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥ २५ ॥
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् ।स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥ २६ ॥
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥ २७ ॥
न चोवाच स मेधावी तमथो साध्वसाधु वा ।तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥ २८ ॥
« »