Click on words to see what they mean.

सूत उवाच ।एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः ॥ १ ॥
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ।तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥ २ ॥
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥ ३ ॥
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥ ४ ॥
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः ।उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥ ५ ॥
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः ।दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥ ६ ॥
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥ ७ ॥
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥ ८ ॥
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् ।कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥ ९ ॥
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः ।अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥ १० ॥
अथ वापि समग्रेण तरन्तु तपसा मम ।भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥ ११ ॥
पितर ऊचुः ।ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति ।न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥ १२ ॥
अस्ति नस्तात तपसः फलं प्रवदतां वर ।संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥ १३ ॥
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ।येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥ १४ ॥
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् ।शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥ १५ ॥
यायावरा नाम वयमृषयः संशितव्रताः ।लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो ॥ १६ ॥
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै ।अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥ १७ ॥
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले ।जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ १८ ॥
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥ १९ ॥
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् ।स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥ २० ॥
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ।कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥ २१ ॥
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् ।एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥ २२ ॥
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ।एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥ २३ ॥
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ।तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥ २४ ॥
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ।स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥ २५ ॥
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ।नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥ २६ ॥
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः ।छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥ २७ ॥
तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् ।तत्सर्वं न समं तात संतत्येति सतां मतम् ॥ २८ ॥
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् ।यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥ २९ ॥
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा ।तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥ ३० ॥
« »